________________
[श्रु०१। अ०२। उ०५। सू०८८] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् मानपिण्ड: ८, मायापिण्ड: ९, लोभपिण्ड: १०, पूर्वसंस्तवपिण्ड: ११, पश्चात्संस्तवपिण्ड: १२, विद्यापिण्ड: १३, मन्त्रपिण्ड: १४, चूर्णयोगपिण्ड: १५, मूलकर्मपिण्डश्चेति १६ । तथा दशैषणादोषाः; ते चामी-शङ्कित १-म्रक्षित २-निक्षिप्त ३-पिहित ४-संहृत ५-दायक ६उन्मिश्रा ७-ऽपरिणत ८-लिप्त ९-उज्झित १० दोषाः । एषां च उद्गमदोषा दातृकृता एव भवन्ति; उत्पादनादोषास्तु साधुजनिताः; एषणादोषाश्च उभयोत्पादिता इति । तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्रतरतरणिकरनिकरावलीढगलत्स्वेदबिन्दुकक्लिन्नवपुष्कः साधुः केनचिद् धिग्जातिदेश्येन अभिहित:- 'किमिति भवतां सर्वजनाचीर्णं स्नानं न सम्मतम् ?' इति; स आह–प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाद् जलस्नानं प्रतिषिद्धम्, तथा च आर्षम्
_ "स्नानं मद-दर्पकरं कामाकं प्रथमं स्मृतम् । । तस्मात् कामं परित्यज्य नैव स्नान्ति दमे रताः ॥" [ ] इत्यादि ।
तदेवं उभयज्ञः तद्विषये प्रेश्ने उत्तरदानाऽनाकुलो भवति । तथा भावन्ने भाव:चित्ताभिप्रायो दातुः श्रोतुः वा, तं जानातीति भावज्ञः । किञ्च-परिग्गहं अममायमीणे परिगृह्यत इति परिग्रहः संयमातिरिक्तं उपकरणादि, तं अममीकुर्वन् अस्वीकुर्वन् मनसाऽपि अनाददान इति यावत् । स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्राज्ञः खेदज्ञः क्षणकज्ञो विनयज्ञः समयज्ञो भावज्ञः परिग्रहं अममीकुर्वाणश्च किम्भूतो भवति इत्याह
कालेणुहाई । यद् यस्मिन् काले कर्तव्यं तत् तस्मिन्नेव अनुष्ठातुं शीलमस्य इति कालानुष्ठायी, कालानतिपातकर्तव्योद्यतः । ननु च अस्यार्थस्य से भिक्खू कालन्ने इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते ? इति; नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिहिता, कर्तव्यकालं जानाति; इह पुनः आसेवनापरिज्ञा, कर्तव्यकाले कार्यं विधत्त इति । किञ्च-अपडिन्ने नास्य प्रतिज्ञा विद्यते इति अप्रतिज्ञः; प्रतिज्ञा च कषायोदयाद् । आविरस्ति । तद्यथा-क्रोधोदयात् स्कन्दकाचार्येण स्वशिष्ययन्त्रपीलनव्यतिकरं आलोक्य सबल-वाहन-राजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञा अकारि । तथा मानोदयाद् बाहुबलिना प्रतिज्ञा व्यधायि यथा-कथमहं शिशून् स्वभ्रातृन् उत्पन्ननिरावरणज्ञानांश्छद्मस्थः सन् द्रक्ष्यामि ?' इति । तथा मायोदयाद् मल्लिस्वामिजीवेन यथा अपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञा जगृहे । तथा लोभोदयाच्च
टि० १. ०षाश्चोभयापादिता ख च ॥ २. प्रश्ने उत्तरदानाकुलो क । प्रश्ने उत्तरप्रदानकुशलो ख । प्रश्नोत्तरदानाऽनाकुलो ग । प्रश्ने उत्तरदानकुशलो च ॥ ३. क्षेत्रज्ञः च ॥ ४. काले अणुट्ठाई क । काले अणुट्ठायी ग । कालो(लेड)णुढाई घ । कालाणुहाई ङ॥ ५. किमयं पुन० ख ॥ ६. अप्पडिन्ने क ङ॥ ७. ०प्रतिज्ञाभ्यधायि ख ॥ ८. मल्लिस्वामिनाऽभ्यधायि यथाऽपरजनविप्र० ख ॥ ९. ०नप्रतिज्ञा घ ङ ।।
२४४