________________
[श्रु०१। अ०२। उ०४ । सू०८६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् प्रतिषिद्धनिवर्तनं मुनेरिदं-मौनं मुनिभिः मुमुक्षुभिः वा आचरितं त्वमपि अवाप्तानेकभवकोटिदुरापसंयमः सन् समनुवासयेः सम्यग् विधत्स्व अनुपालय इति विनेयोपदेशः आत्मानुशासनं वा, इतिः परिसमाप्तौ, ब्रवीमि इति पूर्ववत् ॥८६।।
॥ लोकविजयाध्ययनचतुर्थोद्देशकटीका समाप्ता ॥ छ ।
टि० १. ०सयेः समनुपालयेति वि० ख॥
२३८