________________
॥ पञ्चम उद्देशकः ॥ उक्तश्चतुर्थोद्देशकः । साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते । तस्य च अयमभिसम्बन्धः-इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थं विहर्तव्यं इत्युक्तम्, तदत्र प्रतिपाद्यते । इह हि संसारोद्वेगवता परित्यक्तभोगाभिलाषेण मुमुक्षुणा उत्क्षिप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठानविधायिना दीर्घसंयमयात्रार्थं देहप्रतिपालनाय लोकनिश्रया विहर्तव्यम्; निराश्रयस्य हि कुतो देहसाधनानि ? तदभावे धर्मश्च ? इति । उक्तं हि
"धर्मं चरतः साधोर्लोके निश्रापदानि पञ्चापि ।
राजा गृहपतिरपरः षेट् काया गण-शरीरे च ॥" [ ] साधनानि च वस्त्र-पात्रा-ऽन्ना-ऽऽसन-शयनादीनिः, तत्रापि प्रायः प्रतिदिनं उपयोगित्वाद् आहारो गरीयानिति । स च लोकाद् अन्वेष्टव्यः; लोकश्च नानाविधैः उपायैः आत्मीयपुत्र-कलत्राद्यर्थं आरम्भप्रवृत्तः; तत्र साधुना संयमैदेहनिमित्तं वृत्तिः अन्वेषणीया इति दर्शयति
[सू०] जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कज्जति । तं जहा-अप्पणो से पुत्ताणं धूताणं सुण्हाणं णातीणं धातीणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आदेसाए पुढो पहेणाए सामासाए पातरासाए संणिहिसंणिचयो कज्जति इहमेगेसिं माणवाणं भोयणाए ॥८७॥
जमिणं इत्यादि । यैः अविदितवेद्यैः इदम् इति सुख-दुःखप्राप्तिपरिहारत्वं उद्दिश्य विरूपरूपैः-नानास्वरूपैः शस्त्रैः प्राण्युपघातकारिभिः द्रव्यभावभेदभिन्नैः लोकाय-शरीरपुत्र-दुहितृ-स्नुषा-ज्ञात्याद्यर्थं कर्मणां सुख-दुःखप्राप्ति-परिहारक्रियाणां कायिकाऽऽधिकरणिका-प्रादोषिका-पारितापनिका-प्राणातिपातरूपाणां कृषि-वाणिज्यादिरूपाणां वा, समारम्भा इति मध्यग्रहणाद् बहुवचननिर्देशात् च संरम्भा-ऽऽरम्भयोरपि उपादानम्, तेन अयमर्थः- शरीर-कलत्राद्यर्थं संरम्भ-समारम्भा-ऽऽरम्भाः क्रियन्ते-अनुष्ठीयन्ते । तत्र संरम्भः इष्टा-ऽनिष्टप्राप्ति-परिहाराय प्राणातिपातादिसङ्कल्पावेशः; तत्साधनसन्निपातकायवाग्व्यापारादिजनितपरितापनादिलक्षणः समारम्भः; दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिः आरम्भः । कर्मणो वा अष्टप्रकारस्य समारम्भाः उपार्जनोपायाः
टि० १. षट्कायगणः शरीरे च ख ॥ २. ०मदेहनिमित्तं प्रवृत्ति० क । ०देहार्थं वृत्ति० ख । देहार्थं प्रवृत्ति० च ॥ ३. नानाप्रकारस्वरूपैः ख ग ॥ ४. निवृत्ति० ख च ॥