________________
स्तोकं लब्ध्वा अनिन्दनम्
[श्रु०१। अ०२। उ०४। सू०८६]
नाम योऽभिष्ट्रयते ? इत्यत आह
जे इत्यादि । यो न निर्विद्यते न खिद्यते न जुगुप्सते, कस्मै ? आदानाय आदीयते-गृह्यते अवाप्यतै आत्मस्वतत्त्वं अशेषावारककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञानाऽबाधसुखरूपं येन तद् आदानं संयमानुष्ठानं, तस्मै न जुगुप्सते । तद् वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयाति इत्याह
न मे इत्यादि । 'मम अयं गृहस्थः सम्भृतसम्भारोऽपि उपस्थितेऽपि दानावसरे न ददाती 'ति कृत्वा न कुप्येत्=न क्रोधवशगो भूयात् । भावनीयं च- 'ममैव एषा कर्मपरिणतिः इति अलाभोदयोऽयम्, अनेन च अलाभेन कर्मक्षयाय उद्यतस्य मे तत्क्षपणसमर्थं तपो भावीति न किञ्चित् सूयते' । अथापि कथञ्चित् स्तोकं प्रान्तं वा लभेत तदपि न निन्देद् इत्याह
थोवमित्यादि । स्तोकं अपर्याप्तं लब्धं लब्ध्वा वा न निन्देद् दातारं दत्तं वा । तथा हि-कतिचित् सिक्थानयने ब्रवीति-'सिद्ध ओदनः, भिक्षामानय, लवणाहारो वा अस्माकं नास्तीति अन्नं ददस्व' इत्येवं अत्युवृत्तच्छात्रवद् न विदध्यात् । किञ्च
पेडिसेहिओ इत्यादि । प्रतिषिद्धः अदित्सितः तस्मादेव प्रदेशात् परिणमेत् =निवर्तेत, क्षणमपि न तिष्ठेत्, न दौर्मनस्यं विदध्यात्, न रुण्टन् अपगच्छेत्, न तां सीमन्तिनी अपवदेत्– “धिक् ते गृहवासम्' इति । उक्तं च
"दिट्ठा सि कसेरुमइ ! अणुभूया सि कसेरुमइ !। पीयं चिय ते पाणिययं वरि तुह नाम न दंसणयं ॥" [
] इत्यादि । पठ्यते च–'पडिलाभिओ परिणमेज्जा' प्रतिलाभितः प्राप्तभिक्षादिलाभः सन् परिणमेत्, न उच्चा-ऽवचालापैः तत्रैव संस्तवं विदध्यात्, वैतालिकवद् दातारं न उत्प्रासयेदिति । उपसंहरन्नाह
एयं इत्यादि । एतत् प्रव्रज्याऽनिर्वेदरूपं अदानाऽकोपनं स्तोकाऽजुगुप्सनं
टि० १. ०ते वा आत्म० ग ॥ २. अनेनैवालाभोदयेन कर्मक्षपणार्थमुद्यतस्यैतत् क्षपणसमर्थं ख
यादि ख च । थेवमि० क ॥ ४.वा खप्रतावेव ।। ५. पडिसेहित्त ख॥ ६. तेण पाणियं वरि तुह नामं न ख ॥ ७. ०क्षालाभः क घ ॥
वि०टि० ० "कसेरुमयीति नदी" जै०वि०प० । अत्र कसेरुमती नाम नदी, तस्याः प्रसिद्धिरतीव नवरं न प्रसिद्ध्यनुरूपं तस्याः पानीयमिति क्षेपः -इति व्यवहारभाष्ये मलय०वृत्तौ गा०१३९६-९७ ।।
२३७