________________
[श्रु०१। अ०२। उ०४। सू०८६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् एतत् समीक्ष्य पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः । एते च भोगा भुज्यमाना अपि न तृप्तये भवन्ति इत्याह
नालं इत्यादि । नालं-न समर्था अभिलाषोच्छित्तये यथेष्टावाप्तावपि भोगाः, एतत् पश्य जानीहि; अतोऽलं तव कुशल ! एभिः प्रमादमयैः दुःखकारणस्वभावैः विषयैः उपभोगैः इति । न चैते बहुशोऽपि उपभुज्यमाना उपशमं विदधतीति । उक्तं च
“यल्लोके व्रीहि-यवं, हिरण्यं पशवः स्त्रियः । नालमेकस्य तत् सर्वमिति मत्वा शमं कुरु ॥" [
] तथा- "उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् ।
धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् ॥" [ तदेवं भोगलिप्सूनां तत्प्राप्तौ अप्राप्तौ च दुःखमेव इति दर्शयति
ऐयं पस्स इत्यादि । एतत् प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्भयं भयहेतुत्वाद् दुःखमेव भयं; तच्च मरणकारणमिति मेहद् इत्युच्यते । एतत् मुने ! पश्य सम्यगैहिका-ऽऽमुष्मिकापायापादकत्वेन जानीहि इत्युक्तं भवति । यद्येवं तत् किं कुर्यात् ? इत्याह
नातिवातेज्ज इत्यादि । यतो भोगाभिलषणं महद्भयं अत: तदर्थं नातिपातयेत् न व्यथेत कञ्चनकमपि जीवमिति । अस्य च शेषव्रतोपलक्षणार्थत्वाद् न प्रतारयेत् कञ्चन इत्याद्यपि आयोज्यम् ॥८५॥
भोगनिरीहः प्राणातिपातादिव्रताधिरूढश्चकं गुणं अवाप्नोति ? इत्याह[सू०] एस वीरे पसंसिते जे ण णिव्विज्जति आदाणाए ।
ण मे देति ण कुप्पेज्जा, थोवं लद्धं ण खिसए । पडिसेहितो परिणमेज्जा । एतं मोणं समणुवासेज्जासि त्ति बेमि ॥८६॥
॥ लोगविजयस्स चउत्थो उद्देसओ सम्मत्तो ॥ एस इत्यादि । एष इति भोगाशा-च्छन्दविवेचकः अप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्मविदारणात् प्रशंसितः स्तुतो देवराजादिभिः। क एष वीरो
टि० १. ते च क ॥ २. ०वाप्ता अपि ख ॥ ३. एवं ग ॥ ४. ०मेव महाभयं तच्च क ग च ।। ५. महद्भयमित्युच्यते ख ॥ ६. ०व्रतादिरूढश्च क घ । ०व्रतारूढश्च ख ग च ॥ ७. धीर: ख च ।। ८. एवं क ॥
२३६