________________
महामोहेऽप्रमादो विधेयः
[श्रु०१। अ०२। उ०४। सू०८५]
भोगायतनवदनं वा सर्वत्र सम्बन्धनीयम् ।
स एवं अङ्गनापाङ्गविलोकनाक्षिप्तः तासु तासु योनिषु पर्यटन्नात्महितं न जानाति इत्याह
सययमित्यादि । सततम् अनवरतं दुःखाभिभूतो मूढो धर्मं क्षान्त्यादिलक्षणं दुर्गतिप्रेसृतिनिषेधकं न जानाति=न वेत्ति ॥८४।।
एतच्च तीर्थकृद् आह इति दर्शयति[ सू०] उदाहु वीरे-अप्पमादो महामोहे, अलं कुसलस्स पमादेणं, संतिमरणं सपेहाए, भेउरधम्मं सपेहाए ।
णालं पास । अलं ते एतेहिं । एतं पास मुणि ! महब्भयं । णातिवातेज्ज कंचणं ॥८५॥
उदाहु इत्यादि । उत्-प्राबल्येन आह-उदाह उक्तवान्, कोऽसौ ? वीरः अपगतसंसारभयः, तीर्थकृदित्यर्थः । किमुक्तवान् तदेव पूर्वोक्तं वाचा दर्शयति-अप्रमादः कर्तव्यः, क्व ? महामोहे, अङ्गनाभिष्वङ्ग एव महामोहकारणत्वाद् महामोहः; तत्र प्रमादवता न भाव्यम् । आह च
अलं इत्यादि । अलं-पर्याप्तम्, कस्य ? कुशलस्य=निपुणस्य सूक्ष्मेक्षिणः, केन अलं ? मद्य-विषय-कषाय-निद्रा-विकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनाय उक्त इति । स्यात्-किं आलम्ब्य प्रमादेन अलं ? इति, उच्यते
संति इत्यादि । शमनं शान्तिः अशेषकर्मापगमः, अतो मोक्ष एव शान्तिरिति, नियन्ते प्राणिनः पौन:पुन्येन यत्र चतुर्गतिके संसारे स मरणः संसारः; शान्तिश्च मरणं च =शान्ति-मरणं समाहारद्वन्द्वः, तत् सम्प्रेक्ष्य पर्यालोच्य, 'प्रमादवतः संसारानुपरमः; तत्परित्यागाच्च मोक्षः' इति एतद् विचार्य इति हृदयम् । स वा कुशलः प्रेक्ष्य विषयकषायप्रमादं न विदध्यात् । अथवा शान्त्या-उपशमेन मरणं मरणावधिं यावत् तिष्ठतो यत् फलं भवति तत् पर्यालोच्य प्रमादं न कुर्यादिति । किञ्च
भेउर० इत्यादि । प्रमादो हि विषय-कषायाभिष्वङ्गरूपः शरीराधिष्ठानः; तच्च शरीरं भिदुरधर्मं, स्वत एव भिद्यत इति भिदुरं, स एव धर्मः स्वभावो यस्य तद् भिदुरधर्मम्,
टि० १. एवमङ्गनाङ्गवि० क । एवाङ्गनापाङ्गावलोकना० ख ॥ २. ०प्रसृतनि० क घ च ॥ ३. धीर: ङ॥ ४. ०मोहनी[य कारणत्वाद् ङ ।। ५. ०कर्मापगमतो मोक्ष ख ॥
२३५