________________
[श्रु०१। अ०२ । उ०४। सू०८४]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
भोगाशादिकं शल्यं आहृत्य = स्वीकृत्य परं अशुभं आदत्से, न तु पुनः उपभोगम्; यतो भोगोपभोगो यैरेव अर्थाद्युपायैः भवति तैरेव न भवतीति । आह च
जेण सिया तेण नो सिया । येनैव अर्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्र “त् कर्मपरिणतेः न स्यात् । अथवा येन केनचिद्धेतुना कर्मबन्धः स्यात् तद् न कुर्यात्, तत्र न वर्तेत इत्यर्थः । यदि वा येनैव राज्योपभोगादिना कर्मबन्धो येनैव निर्ग्रन्थत्वादिना मोक्षः स्यात् भवेत् तेनैव तथाभूतपरिणामवशाद् न स्यादिति ।
एतच्च अनुभवावधारितमपि मोहाभिभूता नावगच्छन्ति इत्याह
इणमेव इत्यादि । इदमेव हेतुवैचित्र्यं न बुध्यन्ते - न सञ्जानते । के ? - ये जना मौनीन्द्रोपदेशविकला मोहेन = अज्ञानेन मिथ्यात्वोदयेन वा प्रावृता:= छादिता:, तत्त्वविपर्यस्तमतयो मोहनीयोदयाद् भवन्ति ॥८३॥
मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयति
[ सू० ]
थीभि लोए पव्वहिते ।
ते भो ! वदंति एयाइं आयतणाई ।
से दुक्खाए मोहाए माराए णरगाए नरगतिरिक्खा ।
सततं मूढे धम्मं णाभिजाणति ॥८४॥
थीभि इत्यादि । स्त्रीभिः अङ्गनाभिः भ्रूक्षेपादिविभ्रमैः असौ लोकः आशाच्छन्दाभिभूतात्मा क्रूरकर्मविधायी नरकविपाकफलं शल्यं आहृत्य तत्फलं अबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः = प्रव्यथितः पराजितो वशीकृत इति यावत् । न केवलं स्वतो विनष्टाः, अपरानपि असदुपदेशदानेन विनाशयन्ति इत्याह
=
यथा-'
ते भो इत्यादि । ते स्त्रीभिः प्रव्यथिताः, भो ! इति आमन्त्रणे, एतद् वदन्ति - ' एतानि स्त्र्यादीनि आयतनानि - उपभोगास्पदभूतानि वर्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवती 'ति । एतच्च प्रव्यथनं उपदेशदानं वा तेषां अपायाय स्याद् इत्याह
२३४
से इत्यादि । तेषां से इति एतत् स्त्रीप्रव्यथनं आयतनभणनं वा दुःखाय भवति शारीर-मानसासातवेदनीयोदयाय जायते । किञ्च - मोहाए मोहनीयकर्मबन्धनाय अज्ञानाय “वेति, तथा माराए=मैरणाय, ततोऽपि नरगाए नरकाय - नरकगमनार्थम्, पुनरपि 'नरगतिरिक्खाए' ततोऽपि नरकादुवृत्य तिरश्चि एतत् प्रभवति तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं
टि० १. निर्ग्रन्थादिना ग । २ ० विपर्यासमतयो ख ॥। ३. ०मिति कृत्वा दर्श० ख ॥। ४. भ्रूत्क्षेपादि० घ ॥ ५. चेति क ख ॥। ६. मारणाय च ॥ ७ ०दुद्व खप्रतिमृते ॥