________________
आशा-छन्दयोस्त्यागोपदेशः [श्रु०१। अ०२। उ०४। सू०८३] "उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभः, राग-द्वेष-कषायसन्ततिमहानिर्विघ्नबीजस्त्वया । रोगैरङ्करितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतम्, सोढा नो यदि सम्यगेष फैलिता दुःखैरधोगामिभिः ॥" [ ] "पुनरपि सहनीयो दुःखपाकस्त्वयाऽयम्, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सह गणयित्वा यद् यदायाति सम्यक्,
सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ?॥" [ ] अपि च भोगानां प्रधानं कारणं अर्थः, अतस्तत्स्वरूपमेव निर्दिदिक्षुराह
तिविहेण इत्यादि । त्रिविधेन याऽपि तस्य तत्र अर्थमात्रा भवति अल्पा वा बह्वी वा; स तस्यां अर्थमात्रायां गृद्धः तिष्ठति । सा च भोजनाय किल भविष्यति । ततः तस्य एकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति । तदपि तस्यैकदा दायादा विभजन्ते, अदत्तहारा वा हरन्ति, राजानो वा विलुम्पन्ति, नश्यति वा, विनश्यति वा, अगारदाहेन वा दह्यते । इति स परस्मा अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणः तेन दुःखेन मूढो विपर्यासमुपैति; एतच्च प्रागेव व्याख्यातमिति नेह प्रतायते ॥८२॥
तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्तव्यं तदुपदिशति इत्याह[सू०] आसं च छंदं च विगिंच धीरे ।
तुमं चेव तं सल्लमाहट्ट । जेण सिया तेण णो सिया ।
इणमेव णावबुझंति जे जणा मोहपाउडा ॥८३॥ आसं च इत्यादि । आशां भोगाकाङ्क्षाम्, च: समुच्चये, छन्दनं छन्दः परानुवृत्त्या भोगाभिप्रायः तं च, चशब्दः पूर्वापेक्षया समुच्चयार्थः, तौ आशा-छन्दौ वेविश्व-पृथक्कुरु त्यज, धीर ! धी: बुद्धिः, तया राजत इति । भोगाशा-छन्दाऽपरित्यागे च दुःखमेव केवलम्, न तत्प्राप्तिरिति । आह च
तुमं चेव इत्यादि । विनेय उपदेशगोचरापन्न आत्मा वा अपदिश्यते, त्वमेव तत्
टि० १. ०सलिलैर्जन्मालवालेऽशुभो ख ग । खप्रतौ मूलस्थः पाठः शोधितः ।। २. ०महान् नि० ग च ॥ ३. फलितो क-खप्रती ऋते ॥ ४. ०पाकस्तवाऽयं ख ग च ॥ ५. इह सह ख ॥ ६. अल्पा च बही च ख ॥ ७. अदत्ताहारो वा तस्य हरति ख ग घ ङ च । परं हरन्ति इति गप्रतौ । अदत्तहारो इति च-घप्रतौ विशेषः ॥ ८. विलुञ्चन्ति ग ॥
२३३