________________
[श्रु०१। अ०२। उ०४। सू०८२]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
सेऽवहरति, रायाणो वा से विलुंपंति, णस्सति वा से, विणस्सति वा से अगारदाहेण वा से डज्झति ।
इति से परस्स अट्ठाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति ॥८२॥
ज्ञात्वा तु दुःखं प्रत्येकं सातं च 'स्वकृतकर्मफलभुजः सर्वेऽपि प्राणिनः' इति मत्वा न रोगोत्पत्तौ दौर्मनस्यं भावनीयम्, न भोगाः शोचनीया इति । आह च
भोगामेवेत्यादि । भोगाः शब्द-रूप- गन्ध-रस- स्पर्शविषयाभिलाषाः, तान् एव अनुशोचन्ति - 'कथं अस्यामपि अवस्थायां वयं भोगान् भुञ्ज्महे ? ; एवम्भूता अस्माकं दशा अभूद् येन मनोज्ञा अपि विषया उपनता नोपभोगाय' इति । ईदृक्षश्च अध्यवसायः केषाञ्चिदेव भवति इत्याह
इहमेगेसिं इत्यादि । इह संसारे एकेषां अनवगतविषयविपाकका॒नां ब्रह्मदत्तादीनां मानवानां एवम्भूतोऽध्यवसायो भवति, न सर्वेषाम्, सनत्कुमारादिना व्यभिचारात् । तथा हि
ब्रह्मदत्तो मारणान्तिकरोगवेदनाभिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूमीं मूर्च्छा बहुमन्यमानः, तथा हस्तीकृतो विहस्ततया, विषयीकृतो वैषम्येण, गोचरीकृतो ग्लान्या, दष्टो दुःखासिकया, क्रोडीकृतः कालेन, पीडितः पीडाभिः, निरूपितो नियत्या, आदित्सितो दैवेन, अन्तिकेऽन्त्योच्छ्वासस्य मुखे महाप्रवासस्य, द्वारि दीर्घनिद्रायाः, जिह्वाग्रे जीवितेशस्य वर्तमानः, विरलो वाचि, विह्वलो वपुषि, प्रचुरः प्रलापे, जितो जृम्भिकाभिरिति; एवम्भूतां अवस्थां अनुभवन्नपि महामोहोदयाद् भोगांश्चिकाङ्क्षिषुः पार्श्वोपविष्टां भार्यां अनवरतवेदनावेशविगलदश्रुरक्तनयनां 'कुरुमति ! कुरुमति !' इत्येवं व्याहरन्नधः सप्तमीं नरकपृथ्वीमगात् । तत्रापि तीव्रतरवेदनाभिभूतोऽपि अवगणय्य वेदनां तामेव कुरुमतीं व्याहरतीति ।
एवम्भूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाञ्चित्; अन्येषां पुनः महापुरुषाणां उदारसत्त्वानाम् ‘आत्मनोऽन्यच्छरीरम्' इत्येवं अवगततत्त्वानां सनत्कुमारादीनामिव यथोक्तरोगवेदनासद्भावे सत्यपि 'मयैव एतत् कृतम्, सोढव्यमपि मयैव' इत्येवं जातनिश्चयानां कर्मक्षपणोद्यतानां न मनसः पीडा उत्पद्यते इति । उक्तं च
टि० १. वाऽस्माकं ग ॥ २. इह इति संसारेऽनवगत० ख । इहे( है ) व संसारे एके० च ॥ ३. व्यभिचार:, तथाहि क ॥ ४. इत्येवं तां व्याह० ख ग ॥ ५. ०त्, न पुनरन्येषां महा० ख-चआदर्शों विना ॥
२३२