________________
॥ चतुर्थ उद्देशकः ॥
O
उक्तस्तृतीयोद्देशकः । साम्प्रतं चतुर्थव्याख्या प्रस्तूयते - भोगेष्वनभिषक्तेन भाव्यं यतो भोगिनामपाया दर्श्यन्ते प्रागुक्तम्, ते चामी - तओ से एगया इत्यादि । अनन्तरसूत्रसम्बन्धःदुक्खी दुक्खाणमेव आवट्टं अणुपरियट्टइ [सू०८०] त्ति, तानि चामूनि दुःखानि - ओ से इत्यादि । परम्परसूत्रसम्बन्धस्तु - बाले पुण णिहे कामसमणुण्णे [सू०८०], ते च कामा दुःखात्मका एव; तत्र चाऽऽसक्तस्य धातुक्षय- भगन्दरादयो रोगाः समुत्पद्यन्ते इत्यतोऽपदिश्यते—
[सू० ] ततो से एगया रोगसमुप्पाया समुप्पज्जंति । जेहिं वा सद्धिं संवसति ते व णं एगया णियगा पुव्विं परिवयंति, सो वा ते णियए पच्छा परिवएज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा सरणाए वा ॥ ८१ ॥
तओ से एगया रोगसमुप्पाया समुप्पज्जंति । ततः इति कामानुषङ्गात् कर्मोपचयः, ततोऽपि पञ्चत्वम्, तस्मादपि नरकभवः, नरकाद् निषेक-कलला - ऽर्बुद - पेशीव्यूह-गर्भ-प्रसवादिः, जातस्य च रोगाः प्रादुःष्यन्ति । से-तस्य कामानुषक्तमनसः, एकदा इति असातावेदनीयविपाकोदये, रोगसमुत्पादा इति रोगाणां शिरोऽर्ति-शूलादीनां समुत्पादाः =प्रादुर्भावाः, समुत्पद्यन्ते - प्रादुर्भवन्ति । तस्यां च रोगावस्थायां किम्भूतो भवत्यसौ ? इत्यत
आह
जेहिं इत्यादि । यैः वा सार्धमसौ संवसति त एव एकदा निजाः पूर्वं परिवदन्ति, स वा तान् निजान् पश्चात् परिवदेत् । नालं ते तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा इति ॥ ८१ ॥
[सू० ] जाणित्तु दुक्खं पत्तेयं सायं, भोगामेव अणुसोयंति, इहमेगेसिं माणवाणं तिविहेण जा वि से तत्थ मत्ता भवति अप्पा वा बहुया वा से तत्थ गढि चिट्ठति भोयणाए । ततो से एगया विप्परिसिहं संभूतं महोवकरणं भवति । तं पि से एगया दायादा विभयंति, अदत्तहारो वा
टि० १. ०ष्वनभियुक्तेन ख ॥ २. कामानुषङ्गापायात् घ ङ ॥ ३. भूतस्य च ॥ वि०टि० + दृश्यतां नि०१७३ गाथा ॥
२३१