SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०३। सू०७९(२)] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् दर्शन-चारित्रबोहित्थस्थाः तरन्तीति ओघन्तराः, न ओघन्तरा: अनोघन्तराः, तरतेश्छान्दसत्वात् खच्, खित्त्वाद् मुमागमः, एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः । यद्यपि तेऽपि ओघतरणाय उद्यताः तथापि सम्यगुपायाभावाद् न ओघतरणसमर्था भवन्तीति । आह च- नो य ओहं तरित्तए । न च-नैव ओघं भावौघं तरितुं समर्थाः, संसारौघतरणप्रत्यला न भवन्तीत्यर्थः । तथा ___अतीरंगमा इत्यादि । तीरं गच्छन्तीति तीरङ्गमाः, पूर्ववत् खच्प्रत्ययादिकम्, न तीरङ्गमाः अतीरङ्गमाः, एते इति प्रत्यक्षभावं आपन्नान् कुतीथिकादीन् दर्शयति । न च ते तीरगमनाय उद्यता अपि तीरं गन्तुमलम्, सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः । तथा ___ अपारंगमा इत्यादि । पार:-तट: परकूलम्, तद् गच्छन्तीति पारङ्गमाः, न पारङ्गमाः =अपारङ्गमाः, एते इति पूर्वोक्ताः, पारगतोपदेशाभावाद् अपारगता इति भावनीयम् । न च ते पारगतोपदेशं ऋते पारगमनाय उद्यता अपि पारं गन्तुमलम् । अथवा गमनंगमः, पारस्य पारे वा गम:=पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिकः, न पारगमः अपारगमः, तस्मै अपारगमाय । असमर्थसमासोऽयम्, तेनायमर्थः-पारगमनाय ते न भवन्ति इत्युक्तं भवति । ततश्च अनन्तमपि कालं संसारान्तर्वर्तिन एवासते । यद्यपि पारगमनाय अभ्युद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाः स्वरुचिविरचितशास्त्रप्रवृत्तयो नैव संसारपारं गन्तुमलम् । अथ तीर-पारयोः को विशेषः ? इति, उच्यते- तीरंमोहनीयक्षयः; पारं= शेषघातिक्षयः । अथवा तीरं-घातिचतुष्टयापगमः; पारं=भवोपग्राह्यभाव इत्यर्थः । .. स्यात्- कथं ओघतारी कुंतीर्थादिको न भवति तीर-पारगामी च ? इत्याह- . आयाणिज्जं च आदाय तम्मि ठाणे ण चिट्ठति । वितहं पप्प खेत्तण्णे तम्मि ठाणम्मि चिट्ठति ॥७९(२)॥ आयाणिज्जं इत्यादि । आदीयन्ते गृह्यन्ते सर्वभावा अनेन इति आदानीयं श्रुतं, तद् आदाय तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति । यदि वा आदानीयम्-आदातव्यं भोगाङ्गं द्विपद-चतुष्पद-धन-धान्य-हिरण्यादि, तद् आदाय गृहीत्वा, अथवा मिथ्यात्वाऽविरति-प्रमाद-कषाय-योगैः आदानीयं-कर्म आदाय, किम्भूतो भवति? इत्याहतस्मिन् ज्ञानादिमये मोक्षमार्गे सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठति-नात्मानं विधत्ते । न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयति वितहमित्यादि । वितथम् असद्भूतं दुर्गतिहेतुं, तत् तथाभूतं उपदेशं प्राप्य . टि० १. पूर्वगताः ख ॥ २. अपारङ्गता च ॥ ३. कुतीर्थ्यादिको च ॥ २२८
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy