SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ कुतीर्थिकादीनामनोघन्तरादि [श्रु०१। अ०२। उ०३। सू०७९] विलुम्पन्ति अवच्छिन्दन्ति, नश्यति वा स्वत एवाटवीतः से-तस्य, विनश्यति वा जीर्णभावापत्तेः, अगारदाहेन वा-गृहदाहेन वा दह्यते । कियन्ति वा कारणानि अर्थनाशे वक्ष्यन्ते इति उपसंहरति __ इति से परस्सऽट्ठाए कूराई कम्माइं बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति । इति एवं बहुभिः प्रकारैः उपार्जितोऽपि अर्थ: नाशमुपैति, नैव उपार्जयितुः उपतिष्ठते इति उपदिश्यते- सः=अर्थस्य उत्पादयिता परस्मै-अन्यस्मै अर्थाय-प्रयोजनाय अन्यप्रयोजनकृते क्रूराणि गलकर्तनादीनि कर्माणि-अनुष्ठानानि बाल:=अज्ञः प्रकुर्वाण:विदधानः तेन कर्मविपाकापादितेन दुःखेन असातोदयेन मूढः अपगतविवेकः विपर्यासमुपैति अपगतसदसद्विवेकत्वात् कार्यमकार्यं मन्यते व्यत्ययं चेति । उक्तं च "राग-द्वेषाभिभूतत्वात् कार्या-ऽकार्यपराङ्मुखः । एष मूढ इति ज्ञेयो विपरीतविधायकः ॥" [ ] तदेवं मौढ्यान्धतमसा आच्छादितालोकपथाः सुखार्थिनो दुःखं ऋच्छन्ति जन्तव इति ज्ञात्वा सर्वज्ञवचनप्रदीपं अशेषपदार्थस्वरूपाविर्भावकं आललम्बिरे मुनयः। अदश्च मया न स्वमनीषिकया उच्यते, सुधर्मस्वामी जम्बूस्वामिनमाह । यदि स्वमनीषिकया नोच्यते, * कौतस्त्यं त_दम् ? इत्यत आह मुणिणा हु एतं पवेदितं । अणोहंतरा एते, णो य ओहं तरित्तए । अतीरंगमा एते, णो य तीरं गमित्तए । अपारंगमा एते, णो य पारं गमित्तए । मुणिणा इत्यादि । मनुते जगतः त्रिकालावस्थां इति मुनिः तीर्थकृत्, तेन एतद् असकृद् उच्चैर्गोत्रभवनादिकं प्रकर्षण आदौ वा सर्वस्वभाषानुगामिन्या वाचा वेदितं कथितं वक्ष्यमाणं च प्रवेदितम् । किं तद् ? इत्याह अणोहं० इत्यादि । ओघो द्विधा, द्रव्य-भावभेदात् । द्रव्यौघो नदीपूरादिकः; : भावौघोऽष्टप्रकारं कर्म संसारो वा, तेन हि प्राणी अनन्तमपि कालं उह्यते । तं ओघं ज्ञान टि० १. परस्मा अर्थाय ग घ । परस्माद(5)न्यस्माद( 5 )र्थाय ख ॥ २. दुःखमर्थयन्ति क । दुःखमिच्छन्ति ग॥ २२७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy