________________
[श्रु०१। अ०२। उ०३।सू०७९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् दुपयं इत्यादि । द्विपदं दासी-कर्मकरादि, चतुष्पदं गवाश्वादि, अभियुज्य=योजयित्वा अभियोगं ग्राहयित्वा, व्यापारयित्वा इत्युक्तं भवति । ततः किम् ? इत्यत आहसंसिंचियाणं इत्यादि । प्रियजीवितार्थं अर्थाभिवृद्धये द्विपद-चतुष्पदादिव्यापारेण संसिच्य=अर्थनिचयं संवर्ध्य त्रिविधेन-योगत्रिक-करणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बेख़्यपि फल्गुदेश्या से-तस्य अर्थारम्भिणः सा चार्थमात्रा तत्र इति द्विपदाद्यारम्भे मात्रा इति सोपस्कारत्वात् सूत्राणाम् अर्थमात्रा अल्पता भवति-सत्तां बिभर्ति । किम्भूता सा ? सूत्रेणैव कथयति-अल्पा वा बह्वी वा, अल्प-बहुत्वं चापेक्षिकम्, अतः सर्वाऽपि अल्पा सर्वाऽपि बह्वी, स इति अर्थवान् तत्र-तस्मिन्नर्थे गृद्धः अध्युपपन्नः तिष्ठति, नालोचयति अर्थस्य उपार्जनक्लेशम्, न गणयति रक्षणपरिश्रमम्, न विवेचयति तरलताम्, नावधारयति फल्गुताम् । उक्तं च
"कृमिकुलचितं लालाक्लिनं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् । सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते,
न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् ॥" [ ] इत्यादि । स च किमर्थं अर्थं अर्थयते ? इत्यत आह–'भोयणाए' भोजनम् उपभोगः, तस्मै अर्थं अर्थयते; तदर्थी च क्रियासु प्रवर्तते । क्रियावतश्च किं भवति ? इत्याह
तओ से इत्यादि । ततः से-तस्य अवलगनादिकाः क्रियाः कुर्वतः एकदा लाभान्तरायकर्मक्षयोपशमे विविधं नानाप्रकारं परिशिष्ट-प्रभूतत्वाद् भुक्तोद्वरितं सम्भूतं =सम्यक्प्रतिपालनाय भूतं संवृत्तम्, किं तत् ? महच्च तत् परिभोगाङ्गत्वाद् उपकरणं च= महोपकरणं, द्रव्यनिचय इत्यर्थः; स कदाचिल्लाभोदये भवति । असावपि अन्तरायोदयाद् न तस्य उपभोगाय इत्याह
तं पि से इत्यादि । तदपि समुद्रोत्तरण-रोहणखनन-बिलप्रवेश-रसेन्द्रमर्दनराजावलगन-कृषीवलादिकाभिः क्रियाभिः स्व-परोपतापकारिणीभिः स्वोपभोगाय उपाजितं सत् से तस्य अर्थोपार्जनोपायक्लेशकारिणः एकदा भाग्यक्षये दायादाः पितृपिण्डोदकदानयोग्याः विभजन्ते विलुम्पन्ति, अदत्तहारो वा-दस्युर्वा अपहरति, राजानो वा
टि० १. बह्वपि ख च ॥ २. अर्थाल्पा भवति । सा च किम्भूता ? अल्पा वा ख ॥ ३. अध्युपपन्नः सन् नालोचय० ख ।। ४. ०ताम् ॥ लब्धं तेन शुना स्वतोऽस्थिशकलं नैवात्तु(न्य? )मभ्युद्यते, मह्यं दत्तमहं पुनर्भगवता हन्तुं तमेवोद्यतः । इन्द्रादप्यधिको मुनिः पुनरहं प्रायः शुनो पीतरो, या यस्येह भवेद्गतिर्गतिमतः सा चेष्टया व्यज्यते ॥ इत्यादि ख ग ङ, केवलं खआदर्श पाठान्तरान्तस्थः इत्यादि इति पाठो नोपलभ्यते ॥ ५. तक्रियावतश्च क ।।
२२६