________________
सुखप्रिया दुःखद्वेषिणः प्राणिनः [श्रु०१। अ०२। उ०३। सू०७९] ते प्रियायुषः, तदभावात्; नैष दोषः, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्य उपचरितस्य ग्रहणं संसारिप्राण्युपलक्षणार्थमिति यत्किञ्चिदेतत् । पाठान्तरं वा-सव्वे पाणा पियायया, आयत: आत्मा अनाद्यनन्तत्वात्, स प्रियो येषां ते तथा, सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुख-दुःखप्राप्तिपरिहारतया भवतीति । आह च
'सुहसाया दुक्खपडिकूला' सुखं आनन्दरूपं आस्वादयन्तीति सुखास्वादाः, सुखभोगिनः सुखैषिण इत्युक्तं भवति । दुःखम् असातं, तत् प्रतिकूलयन्तीति दुःखप्रतिकूला:, दुःखद्वेषिण इत्युक्तं भवति । तथा अप्रियवधा अप्रियं-दु:खकारणं, तद् घ्नन्ति अप्रियवधाः । तथा पियजीविणो प्रियं-दयितं जीवितं आयुष्कं असंयमजीवितं (वा) येषां ते तथा । (तथा) जीवितुकामा यत एव प्रियजीविनः अत एव दीर्घकालं जीवितुकामा:-दीर्घकालं आयुष्काभिलाषिणः, दुःखाभिभूता अपि अन्त्यां दशां आपन्नाः जीवितुमेव अभिलषन्ति । उक्तं च
"रम विहवी विसेसे थितिमित्तं थेववित्थरो महई ।
मग्गइ सरीरमहणो रोगी जीवे च्चिय कयत्थो ॥" [ ] तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी; तच्च नारम्भमृते । असावपि प्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थं दयितं इत्यतो भूयो भूयः तदेव उपदिश्यत इत्याह
सव्वेसिं इत्यादि । सर्वेषां अविगानेन जीवितं असंयमजीवितं प्रियं-दयितम् ॥७८।। यद्येवं ततः किम् ? इत्यत आह[ सू०] तं परिगिज्झ दुपयं चउप्पयं अभिमुंजियाणं संसिंचियाणं तिविधेण जा वि से तत्थ मत्ता भवति अप्पा वा बहुगा वा से तत्थ गढिते चिट्ठति भोयणाए । ततो से एगदा विप्परिसिटुं संभूतं महोवकरणं भवति । तं पि से एगदा दायादा विभयंति, अदत्तहारो वा सेऽवहरति, रायाणो वा से विलुपंति, णस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झति ।
तं परिगिज्झ । तद् असंयमजीवितं परिगृह्य-आश्रित्य, किं कुर्वन्ति ? इत्याह
टि० १. संसारे प्रा० ग । संसार प्रा० घ ॥ २. प्रियः आयतः आत्मा अनाद्यनन्तत्त्वात् येषां ख च ॥ ३. जीवितुमेवमभि० क । जीवितमेवाभि० च ॥ ४. ०मधणो ख ॥ ५. जीए ट्ठिय च ॥ ६. परिगेज्ज ख च ॥
२२५