________________
[श्रु०१ । अ०२ । उ०३ । सू०७८ ] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीति धूतं चारित्रं, तच्चारिण इति । किञ्च
जाई० इत्यादि । जातिश्च मरणं च समाहारद्वन्द्वः, तत् परिज्ञाय = परिच्छिद्य ज्ञात्वा चर - उद्युक्तो भव । क्व ? - सङ्क्रमणे, सङ्क्रम्यते अनेन इति सङ्क्रमणं चारित्रं, तत्र दृढ: =विश्रोतसिकारहितः परीषहोपसर्गेः निष्प्रकम्पो वा । यदि वा अशङ्कमनाः सन् संयमं चैर, न विद्यते शङ्का यस्य मैनसः तद् अशङ्कम्, अशङ्कं मनो यस्य असौ अशङ्कमनाः, तपोदम-नियमनिष्फलत्वाशङ्कारहित आस्तिकमत्युपपेतः तपो दमादौ प्रवर्तेत; यतस्तद्वान् राजराजादीनां पूजा-प्रशंसार्हो भवति । न च औपशमिकसुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्वदवीयसः असत्यपि परलोके किञ्चित् क्षूयते । उक्तं च
" सन्दिग्धेऽपि परलोके त्याज्यमेवाशुभं बुधैः ।
यदि नास्ति ततः किं स्याद् ? अस्ति चेन्नास्तिको हतः ॥ " [
] इत्यादि ॥१॥
तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यम् । न चैतद् भावनीयं यथा - 'परुत्परारि वृद्धावस्थायां वा धर्मं करिष्यामीति, यतः
णत्थि कालस्सऽणागमो ।
नत्थि इत्यादि । नास्ति = न विद्यते कालस्य = मृत्योः अनागमः अनागमनं अनवसरः इति यावत् । तथा हि- सोपक्रमायुषः असुमतो न काचित् सा अवस्था यस्यां कर्मपावकान्तर्वर्ती जन्तुः जतुगोलक इव न विलीयेत इति । उक्तं च
" शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितं,
धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् ।
यतिमयतिं प्रकाशमवलीनमचेतनमथ सचेतनं,
निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥" [ ] तदेवं सर्वङ्कषत्वं मृत्योः अवधार्य अहिंसादिषु दत्तावधानेन भाव्यम् । किमिति ? यतः— सव्वे पाणा पिआउया सुहसाता दुक्खपडिकूला अप्पियवधा पियजीविणो जीवितुकामा । सव्वेसिं जीवितं पयं ॥ ७८ ॥
सव्वे पाणा पियाउया । प्राणशब्देन अत्र अभेदोपचारात् तद्वन्त एव गृह्यन्ते । सर्वे प्राणिन: = :- जन्तवः प्रियायुषः प्रियमायुः येषां ते तथा । ननु च सिद्धैः व्यभिचारः, न हि
टि० १. ज्ञात्वाचारोद्युक्तो भवेत् क च । ज्ञात्वा चरेद्युक्तो भवेत् ग । ज्ञात्वा चरे उद्युक्तो भवेत् घ ॥। २. चरे क ॥। ३. मनसस्तं विशङ्कं ख ॥। ४. प्रवर्तते ख- चप्रती ऋते ॥ ५. क्षीयते ख ॥। ६. विलीयते कग च ।। ७. ते प्रियायुषः ख च ॥
२२४