________________
परिग्रहरक्तानां मूढत्वम् [श्रु०१। अ०२। उ०३। सू०७८(१)] प्रियं-दयितं वल्लभम्, इह इति अस्मिन् संसारे एकेषाम् अविद्योपहतचेतसां मानवानाम् इति उपलक्षणार्थत्वात् प्राणिनाम् । तथा हि-दीर्घजीवनार्थं ताः ताः रसायनादिकाः क्रियाः सत्त्वोपघातकारिणीः कुर्वते । तथा क्षेत्रं शालिक्षेत्रादि, वास्तु धवलगृहादि, 'ममेदम्' इत्येवं आचरतां तत् क्षेत्रादिकं प्रेयो भवति । किञ्च
आरक्तम् ईषद्रक्तं वस्त्रादि, 'विरक्तं विगतरागं विविधरागं वा, मणिः इति रत्नवैडूर्येन्द्रनीलादि, कुण्डलं कर्णाभरणम्, हिरण्येन सह स्त्रीः परिगृह्य तत्रैव क्षेत्रवास्त्वारक्त-विरक्त वस्त्र-मणि-कुण्डल-स्त्र्यादौ रक्ता:गृद्धा अध्युपपन्ना मूढाः विपर्यासमुपयान्ति वदन्ति च
'नात्र तपो वा अनशनादिलक्षणं दमो वा इन्द्रिय-नोइन्द्रियोपशमलक्षणः नियमो वा अहिंसाव्रतलक्षणः फलवान् दृश्यते' । तथा हि- तपो-नियमोपेतस्यापि कायक्लेशभोगादिवञ्चनां विहाय नान्यत् फलमुपलभ्यते । जन्मान्तरे भविष्यतीति चेद्, व्युद्ग्राहितस्य उल्लापः, किञ्च दृष्टहानिः अदृष्टपरिकल्पना च पापीयसी ।
तदेवं साम्प्रतेक्षी भोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्णं यथावसरसम्पादितविषयोपभोगं बाल:=अज्ञः जीवितुकाम: आयुष्कानुभवनमभिलषन् लालप्यमानः भोगार्थमत्यर्थं लपन् वाग्दण्डं करोति, तद्यथा-'अत्र तपो दमो नियमो वा फलवान् न दृश्यत' इति । एवमर्थं ब्रुवन् मूढः अबुध्यमानो हतोपहतो जाति-मरणमनुपरिवर्तमानो जीवित-क्षेत्र-स्त्र्यादिलोभपरिमोहितमनाः विपर्यासमुपैति तत्त्वे अतत्त्वाभिनिवेशं अतत्त्वे च तत्त्वाभिनिवेशं हितेऽहितबुद्धिं इत्येवं सर्वत्र विपर्ययं विदधाति । उक्तं च
"दारा: परिभवकारा बन्धुजनो बन्धनं विषं विषयाः ।
कोऽयं जनस्य मोहः ये रिपवस्तेषु सुहृदाशा ? ॥" [ ] इत्यादि ॥७७॥ ये पुनः उन्मज्जच्छुभकर्मापादिताध्यवसायपुरस्कृतमोक्षाः ते किम्भूता भवन्ति ? इत्याह[सू०] इणमेव णावकंखंति जे जणा धुवचारिणो ।
जाती-मरणं परिणाय चर संकमणे दढे ॥१॥ इणमेवेत्यादि । इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्रा-ऽङ्गनापरिभोगोदिकं वा नावकाङ्क्षन्ति नाभिलषन्ति ये जना ध्रुवचारिणः ध्रुवः मोक्षः, तत्कारणं च ज्ञानादि ध्रुवं,
टि० १. विरक्तं विविधरागं विरागं वा च ॥ २. भोगसंविदितैकपुरुषा० ख ॥ ३. अविद्यमानो ख ॥ ४. सम्पूर्णजीवितत्वं ख ।। ५. ०दिकं नाभिलषन्ति ख ॥
२२३