________________
[श्रु०१। अ०२। उ०३। सू०७७] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् पश्चाद्भावि वा कर्मवशगो भूरिशो दु:खराशिदेशीयं परिसंवेदयते । किञ्च___ सह प्रमादेन विषयक्रीडाभिष्वङ्गरूपेण श्रेयसि अनुद्यमात्मकेने वा अनेकरूपाः सङ्कट-विकट-शीतोष्णादिभेदभिन्ना योनी: सन्दधाति-सेन्धत्ते, चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा तासु तासु आयुष्कबन्धोत्तरकालं गच्छतीत्यर्थः । तासु च नानाप्रकारासु योनिषु विरूपरूपान् =नानाप्रकारान् स्पर्शान्-दु:खानुभावान् परिसंवेदयते अनुभवतीत्यर्थः ॥७६।।
तदेवं उच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वा अन्ध-बधिरभूयं वा गतः सन् नावबुध्यते कर्तव्यम्, न जानाति कर्मविपाकम्, नावगच्छति संसारापशदताम्, नावधारयति हिता-ऽहिते, न गणयति औचित्यम् इति अनवगततत्त्वो मूढः तत्रैव उच्चैर्गोत्रादिके विपर्यासमुपैति । आह च[ सू०] से अबुज्झमाणे हतोवहते जाती-मरणं अणुपरियट्टमाणे । जीवियं पुढो पियं इहमेगेसिं माणवाणं खेत्त-वत्थु ममायमाणाणं । आरत्तं विरत्तं मणि-कुंडलं सह हिरण्णेण इत्थियाओ परिगिज् तत्थेव रत्ता । ण एत्थ तवो वा दमो वा णियमो वा दिस्सति । संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेति ॥७७॥
से अबुज्झमाणे इत्यादि यावत् मूढे विप्परियासुवेइ । स इति उच्चैर्गोत्राभिमानी अन्ध-बधिरादिभावसंवेदको वा कर्मविपाकं अबुध्यमानो हतोपहतो भवति, नानाव्याधिसद्भावक्षतशरीरत्वाद् हतः, समस्तलोकपरिभूतत्वाद् उपहतः; अथवा उच्चैर्गोत्रगर्वाध्मातत्यक्तोचितविधेयविद्वज्जनवदनसमुद्भूतशब्दाऽयश:पटहहतत्वाद् हतः, अभिमानोत्पादितानेकभवकोटिनीचैर्गोत्रोदयाद् उपहतः; मूढो विपर्यासमुपैति इत्युत्तरेण सम्बन्धः । तथा जातिश्च मरणं च समाहारद्वन्द्वः, तद् अनुपरिवर्तमान: पुनर्जन्म पुनर्मरणं इत्येवं अरघट्टघटीयन्त्रन्यायेन संसारोदरे विवर्तमानः, आवीचीमरणाद् वा प्रतिक्षणं जन्म-विनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हितेऽपि अहिताध्यवसायो विपर्यासमुपैतीति । आह च
जीवितम् आयुष्कानुपरमलक्षणं असंयमजीवितं वा, पृथक् इति प्रत्येकं, प्रतिप्राणि
टि० १. ०न चानेक० ख ॥ २. विधत्ते च ॥ ३. विप्परियासमेइ च ॥ ४. अनवबुध्यमानो ख च ॥ ५. अभिमानापादिता० क घ ङ॥ ६. परिवर्तमानः ख ॥
२२२