________________
अन्धत्वादिकं दुःखजनकम् [श्रु०१। अ०२। उ०३। सू०७६] अन्धत्वं द्रव्य-भावविभिन्नं एकान्तेन दुःखजननं अवाप्नोतीति । उक्तं च
"जीवन्नेव मृतोऽन्धो यस्मात् सर्वक्रियासु परतन्त्रः । नित्यास्तमितदिवाकरतमोऽन्धकारार्णवनिमग्नः ॥'[ "लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् । को नोद्विजेत भयकृज्जननादिवोग्रात्,
कृष्णाहिनैकनिचितादिव चान्धगर्तात् ॥''[ ] एवं बधिरत्वमपि अदृष्टवशाद् अनेकशः परिसंवेदयते । तदावृतश्च सदसद्विवेकविकलत्वाद् ऐहिका-ऽऽमुष्मिकेष्टफलक्रियानुष्ठानशून्यतां बिभर्तीति । उक्तं च
"धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवणसंव्यवहारबाह्यः । किं जीवतीह बधिरो भुवि यस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति ? ॥''[ ] "स्वकलत्र-बाल-पुत्रकमधुरवचःश्रवणबाह्यकर्णस्य ।
बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य ? ॥" [ एवं मूकत्वमपि एकान्तेन दुःखावहं परिसंवेदयते । उक्तं च
"दुःखकरमकीर्तिकरं मूकत्वं सर्वलोकपरिभूतम् ।
प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति? ॥" [ ] तथा काणत्वमपि एवंरूपमेव इति । आह च
"काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्तो विरागजनने जननातुराणाम् । यो नैव कस्यचिदुपैति मन:प्रियत्व
मालेख्यकर्मलिखितोऽपि किमु स्वरूपः ? ॥''[ ] एवं कुण्टत्वं पाणिवक्र त्वादिकम्, कुब्जत्वं वामनलक्षणम्, वडभत्वं विनिर्गतपृथ्वीवडभलक्षणम्, श्यामत्वं कृष्णलक्षणम्, शबलत्वं श्वित्रलक्षणं सहजं
टि० १. दुःखरूपं संवेदयत् इति, उक्तं च ख । दुःखरूपं परिवेदयत इति, उक्तं च च ॥ २. विषमोत्कटदृष्टि० ग च ।। ३. पृथि(ष्ठि ?)वडभ० ङ ॥ ४. कुष्ठलक्षणम् क ख ॥ ५. चित्रलक्षणम् ख च । क-ङप्रत्योः पाठभङ्गः ।।
वि०टि० क "प्रत्यादेशम् इति दृष्टान्तः" जै०वि०प० ।।
२२१