________________
[श्रु०१। अ०२। उ०३। सू०७६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् सुखैषकः ।
सर्वोऽपि प्राणी दुःखोद्वेग-सुखैषक एव भवति अतो जीवप्ररूपणं कार्यम् ; तच्च अवनि-वन-पवना-ऽनल-वनस्पति-सूक्ष्म-बादर-विकल-पञ्चेन्द्रिय-सञ्जीतर-पर्याप्तकाऽपर्याप्तकरूपं शस्त्रपरिज्ञायां अकारि एव । तेषां च दुःखपरिजिहीणां सुखलिप्सूनां आत्मौपम्यं आचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरता आत्मा पञ्चमहाव्रतेषु आस्थेयः । तत्परिपालनार्थं चोत्तरगुणा अपि अनुशीलनीयाः । तदर्थमुपदिश्यते
समिते एयाणुपस्सी । तंजहा-अंधत्तं बहिरत्तं मूकत्तं काणत्तं कुंटत्तं खुज्जत्तं वडभत्तं सामत्तं सबलत्तं । सह पमादेणं अणेगरूवाओ जोणीओ संधेति, विरूवरूवे फासे पडिसंवेदयति ॥७६॥
समिए एयाणुप्पस्सी । पञ्चभिः समितिभिः समितः सन् एतत् शुभा-ऽशुभं कर्म वक्ष्यमाणं वा अन्धत्वादिकं द्रष्टुं शीलं अस्येति एतदनुदर्शी, भूतेषु सातं जानीहीति सण्टङ्कः । तत्र समितिः इति “इण् गतौ" [पा०धा०१०४५] इत्यस्मात् सम्पूर्वात् क्तिन्नन्ताद् भवति । सा च पञ्चधा, तद्यथा-ईर्याभाषैषणादाननिक्षेपोत्सर्गरूपा । तत्र ईर्यासमितिः प्रोणाव्यपरोपणव्रतप्रतिपालनाय, भाषासमितिः असदभिधाननियमसंसिद्धये, एषणासमितिः अस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रष्ठस्य अहिंसाव्रतस्य संसिद्धये व्याप्रियत इति ।
तदेवं पञ्चमहाव्रतोपपेतः तद्वतिकल्पसमितिभिः समितः सन् भावतः एतद् भूतसातादिकं अनुपश्यति । अथवा यदनुदर्शी असौ भवति (तद्) तद्यथा इत्यादिना सूत्रेणैव दर्शयति
अन्धत्वमित्यादि यावत् विरूवरूवे फासे परिसंवेदेति । संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते । स चान्धो द्रव्यतो भावतश्च । तत्र एकेन्द्रियद्वीन्द्रिय-त्रीन्द्रिया द्रव्य-भावान्धाः; चतुरिन्द्रियादयस्तु मिथ्यादृष्टयो भावान्धाः । उक्तं च
"एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिद्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्ध
स्तस्यापमार्गचलने खलु कोऽपराधः ? ॥" [ ] सम्यग्दृष्टयस्तु उपहतनयना द्रव्यान्धाः; त एवानघा न द्रव्यतो न च भावतः । तदेवं
टि० १. इणु ग ।। २. प्राणव्यपरोपणविरतिप्रति० ख च || ३. विरूपरूपे क च ॥ ४. प्राण्यन्धादिका ख ॥ ५. ०स्तद्विद्भिरेव च ।। ६. ०स्तस्यापि मार्ग० क ख ग ॥७. नापि भावतः ख
२२०