________________
जीवेषु सुखप्रतिलेखना [श्रु०१। अ०२। उ०३। सू०७६] कुर्यात् । कतरद् नीचस्थानं शब्दादिकं वा दुःखं मया नानुभूतम् ?'इत्यवगम्य न उद्वेगवशगेन भाव्यम् । उक्तं च
"अवमानात् परिभ्रंशाद् वध-बन्ध-धनक्षयात् । प्राप्ता रोगाश्च शोकाश्च जात्यन्तरशतेष्वपि ॥" [ ] "संते य अविम्हइउं असोइउं पंडिएण य असंते । सक्का हु दुमोवमियं हियएण हियं धरतेण ॥" [ "होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो ।
सो चेव नाम भुज्जो अणाहसालालओ होइ ॥" [ ] एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चा-ऽवचाः केर्मवशतः अनुभवति ॥५॥
___ तदेवं उच्च-नीचगोत्रनिर्विकल्पमना अन्यदपि अविकल्पेन किं कुर्यात् ? इत्याह[सू०] भूतेहिं जाण पडिलेह सातं ।
भूएहिं इत्यादि । भवन्ति भविष्यन्ति अभूवन्निति भूतानि असुभृतः,तेषु प्रत्युपेक्ष्य =पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि-अवगच्छ । किं जानीहि ? सातं सुखम्, तद्विपरीतं असातमपि जानीहि, किं च कारणं साता-ऽसातयोः ? एतज्जानीहि, किं वा अभिलषन्ति अविगानेन प्राणिनः इति । अत्र जीव-जन्तु-प्राण्यादिशब्दान् उपयोगलक्षणद्रव्यस्य मुख्यान् वाचकान् विहाय सत्तावाचिनो भूतशब्दस्य उपादानेन इदं आविर्भावयति । यथा-अयं उपयोगलक्षणः पदार्थोऽवश्यं सत्तां बिभर्ति । साताभिलाषी असातं च जुगुप्सते, , साताभिलाषश्च शुभप्रकृतित्वात्; अतोऽपरासामपि शुभप्रकृतीनां उपलक्षणं एतदवसेयम्; अतः शुभनाम-गोत्रा-ऽऽयुराद्याः कर्मप्रकृती: अनुधावति अशुभाश्च जुगुप्सते सर्वोऽपि प्राणी ।
एवं च व्यवस्थिते किं विधेयम् ? इत्याह-समिए इत्यादि । अथवा भूतेषु शुभाऽशुभरूपं कर्म प्रत्युपेक्ष्य यत् तेषां अप्रियं तद् न विदध्यात् इत्ययमुपदेशः ।
नागार्जुनीयास्तु पठन्ति-पुरिसे णं खलु दुक्खुव्वेय-सुहेसए । पुरुषः जीवः, णमिति वाक्यालङ्कारे, खलुः अवधारणे, दु:खाद् उद्वेगो यस्य स-दुःखोद्वेगः, सुखस्यैषक: =सुखैषकः, याजकादित्वात् समासः छान्दसत्वाद् वा, दुःखोद्वेगश्चासौ सुखैषकश्च = दुःखोद्वेग
टि० १. अविम्हइयं असोइअं क । अविम्हइओ ख ॥ २. कर्मवशगोऽनु० ख च ॥ ३. अवबुध्यस्व ख च ॥ ४. ०वादिनो च ॥ ५. दुक्खुव्वेए सुहेसए इति जम्बूविजयपादैः सम्पादिते आचाराङ्गशुद्धिपत्रके ॥
वि०टि०० "वाचकान् इति शब्दान" जै०वि०प० ।।
२१९