________________
[श्रु०१। अ०२। उ०३। सू०७५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् उपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेषु एतद् आयोज्यम्, यतश्च उच्चा-ऽवचेषु स्थानेषु कर्मवशाद् उत्पद्यते ।
बल-रूप-लाभादिमदस्थानानां च असमञ्जसतामवगम्य किं कर्तव्यम् ? इत्याह
नो पीहए । अपि: सम्भावने; स च भिन्नक्रमः । जात्यादीनां मदस्थानानां अन्यतमदपि नो ईहेतापि नाभिलषेदपि । अथवा नो स्पृहयेत् = नावकाङ्क्षदिति ।
तत्र यदि उच्चा-ऽवचेषु स्थानेषु असकृद् उत्पन्नः असुमान् ततः किम् ? इत्याह
इति संखाए इत्यादि । इतिः उपप्रदर्शने; इत्येतत् पूर्वोक्तनीत्या उच्चाऽवचस्थानोत्पादादिकं परिसङ्ख्याय-ज्ञात्वा को गोत्रवादी भवेत् ?, तद्यथा- 'मम उच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्य'इति एवंवादी को बुद्धिमान् भवेत् ?, तथा हि-मयाऽन्यैश्च जन्तुभिः सर्वाण्यपि स्थानानि अनेकशः प्राप्तपूर्वाणीति । तथा उच्चैर्गोत्रनिमित्तमानवादी वा को भवेत् ?, न कश्चित् संसारस्वरूपपरिच्छेदीत्यर्थः । किञ्च
कंसि वा एगे गिज्झे । अनेकशः अनेकस्मिन् स्थाने अनुभूते सति तन्मध्ये कस्मिन् वा एकस्मिन् उच्चैर्गोत्रादिके अनवस्थितस्थानके रागादिविरहाद् एकः कथं गृध्येत् । तात्पर्यम्-आसेवां विदितकर्मपरिणामो विदध्यात्, युज्येत गाद्धय यदि तत् स्थानं प्राप्तपूर्वं नाभविष्यत्, तच्च अनेकशः प्राप्तपूर्वम्; अतस्तल्लाभा-ऽलाभयोः न उत्कर्षाऽपकर्षों विधेयौ इति । आह च
तम्हा इत्यादि । यतोऽनादौ संसारे पर्यटता असुमता अदृष्टायत्तानि असकृद् उच्चाऽवचानि स्थानानि अनुभूतानि; तस्मात् कथञ्चिद् उच्चादिकं मदस्थानं अवाप्य पण्डितः =हेयोपादेयतत्त्वज्ञः न हृष्येत=न हर्षं विदध्यात् । उक्तं च
"सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । उच्चैःस्थानानि तथा तेन न मे विस्मयस्तेषु ॥" [ ] "जइ सो वि निज्जरमओ पडिसिद्धो अट्ठमाणमहणेहिं ।।
अवसेसा मयट्ठाणा परिहरियव्वा पयत्तेण ॥" [ ] नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्यात्, आह च–'नो कुज्झे', अदृष्टवशात् तथाभूतलोकासम्मतं जाति-कुल-रूप-बल-लाभादिकं अधम अवाप्य न क्रुध्येत्=न क्रोधं
टि० १. नाभिकाङ्क्षदिति ख ॥ २. संखाय ङ ॥ ३. ०स्वभावपरि० ख च ॥ ४. न हृष्टो न हर्षं ख । न हृष्येत-हर्षं क ॥ ५. कुप्पे'त्यदृष्ट० ग ।। ६. कुप्येत् क ग घ ॥
वि०टि० © "अट्ठमाण इति अष्टमदाः' जै०वि०प० ॥
२१८