________________
मान- दीनतापरिहारः [श्रु०१। अ०२ । उ०३ । सू०७५] सूक्ष्मस्तु जघन्यानुभागबन्धाध्यवसायस्थानाद् आरभ्य यदा सर्वेष्वपि क्रमेण मृतो भवति तदा अवसेय इति ।
तदेवं कालङ्कलीभावं आपन्नः अन्यो वा नीचैर्गोत्रोदयाद् अनन्तमपि कालं तिर्यक्षु आस्ते । मनुष्येष्वपि तदुदयादेव अवगीत: अवगीतेषु स्थानेषु उत्पद्यते । तथा कालङ्कलीसत्त्वोऽपि द्वीन्द्रियादिषु उत्पन्नः सन् प्रथमसमये एव पर्याप्त्युत्तरकालं वा उच्चैर्गोत्रं बद्ध्वा मनुष्येषु असकृद् उच्चैर्गोत्रं आस्कन्दति । तत्र कदाचित् तृतीयभङ्गकस्थः पञ्चमभङ्गोपपन्नो वा भवति, ताविमौ - नीचैर्गोत्रं बध्नाति, उच्चैर्गोत्रस्योदयः, सत्कर्मता उभयस्य तृतीयः । पञ्चमस्तु उच्चैर्गोत्रं बध्नाति, तस्यैव उदयः सत्कर्मता तु उभयस्य । षष्ठसप्तमभङ्गौ तु उपरतबन्धस्य भवतः, अविषयत्वाद् न ताभ्यां इह अधिकारः । तौ चेमौबन्धोपरमे उच्चैर्गोत्रोदय:, सत्कर्मता तु उभयस्य इति षष्ठः । सप्तमस्तु शैलेश्यवस्थायां द्विचरमसमये नीचैर्गोत्रे क्षपिते उच्चैर्गोत्रोदयः, तस्यैव सत्कर्मता इति ।
I
तदेवं उच्चा- ऽवचेषु गोत्रेषु असकृद् उत्पद्यमानेन असुमता पञ्चभङ्गकान्तर्वर्तिना न मानो विधेयो नापि दीनतेति । तयोश्च उच्चा - ऽवचयोः गोत्रयोः बन्धाध्यवसायस्थानकण्डकानि तुल्यानि इत्याह
णो हीणे, णो अतिरित्ते । यावन्ति उच्चैर्गोत्रे अनुभावबन्धाध्यवसायस्थानकण्डकानि नीचैर्गोत्रेऽपि तावन्त्येव । तानि च सर्वाण्यपि असुमता अनादिसंसारे भूयो भूयः स्पर्शितानि । तॆत उच्चैर्गोत्रकण्डकार्थतया असुभृद् न हीनो नापि अतिरिक्तः; एवं नीचैर्गोत्रकण्डकार्थतया अपीति ।
नागार्जुनीयास्तु पठन्ति–एगमेगे खलु जीवे अतीयद्धाए असई उच्चागोए असइं नीयागोए, कंडगट्टयाए नो हीणे नी अइरित्ते ।
एैकैको जीवः, खलुशब्दः वाक्यालङ्कारे, अतीते काले असकृद् उच्चा-ऽवचेषु गोत्रेषु उत्पन्नः; स च उच्चा - ऽवचानुभागकण्डकापेक्षया न हीनो नापि अतिरिक्त इति । तथा हि—उच्चैर्गोत्रकण्डकेभ्य एकभविकेभ्यो अनेकभविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नापि अतिरिक्तानि इति अतः अवगम्य उत्कर्षा - ऽपकर्षो न विधेयौ । अस्य च
टि० १. ०यादेवावगीयते । तेषु स्थानेषू० च ॥ २. कलङ्कली० च ॥ ३. तत्र तूच्चै ० ख ॥ ४. नाप्यधिकः; एवं ख | ५. असई क ॥ ६. नावि हीणे ग ॥ ७ एवमेकैको ख ॥ ८. नापि अधिकानी ०
ख ॥
वि०टि० + " अन्यो वा इति निगोदः " जै०वि०प० ॥ ≠ " कण्डकेभ्य इति कोऽर्थः ? यदा बध्नाति तदा उच्चैर्गोत्रकण्डकानि" जै०वि०प०॥
२१७