________________
[श्रु०१। अ०२। उ०३। सू०७५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् उदयोऽपि तस्यैव सत्कर्मताऽपीति । ततोऽपि उद्वृत्तस्य अपरैकेन्द्रियगतस्य अयमेव भङ्गः । त्रसेषु अपि अपर्याप्तकावस्थायां अयमेव । अनिर्लेपिते ते उच्चैर्गोत्रे द्वितीय-चतुर्थौ भनौ, तद्यथा-नीचैर्गोत्रस्य बन्धः, उदयोऽपि तस्यैव, सत्कर्मता तु उभयरूपस्यैव इति द्वितीयः; तथा उच्चैर्गोत्रस्य बन्धः, नीचस्योदयः, सत्कर्मता तु उभयरूपस्य इति चतुर्थः । शेषास्तु चत्वारो न सन्त्येव तिर्यक्षु उच्चैर्गोत्रस्य उदयाभावादिति भावः ।
तदेवं उच्चैर्गोत्रोद्वलनेन कालङ्कलीभावं आपन्नः असङ्ख्येयमपि कालं सूक्ष्मत्रसेषु आस्ते । ततोऽपि उद्वृत्त उच्चैर्गोत्रोदयाभावे सति द्वितीय-चतुर्थभङ्गस्थः अनन्तमपि कालं तिर्यक्ष्वास्त इति; स च अनन्ता उत्सपिण्यवसपिणीः, आवलिकाकालासङ्ख्येयभागसमयसङ्ख्यान् पुद्गलपरावर्तानिति ।
कीदृशः पुनः पुद्गलपरावर्तः ? इति, उच्यते यदा औदारिक-वैक्रिय-तैजसभाषा-ऽऽनापान-मन:-कर्मसप्तकेन संसारोदरविववर्तिनः पुद्गला आत्मसात्परिणामिता भवन्ति तदा पुद्गलपरावर्त इत्येके । अन्ये तु द्रव्य-क्षेत्र-काल-भावभेदात् चतुर्धा वर्णयन्ति । प्रत्येकं असावपि बादर-सूक्ष्मभेदाद् द्वैविध्यं अनुभवति । तत्र द्रव्यतो बादरो यदा
औदारिक-वैक्रिय-तैजस-कार्मणचतुष्टयेन सर्वपुद्गला गृहीत्वा उज्झिताः तदा भवति; सूक्ष्मः पुनः यदा एकशरीरेण सर्वपुद्गलाः स्पृष्टा भवन्ति तदा दृष्टव्यः । क्षेत्रतो बादरो यदा क्रमोत्क्रमाभ्यां म्रियमाणेन सर्वे लोकाकाशप्रदेशाः स्पृष्टा भवन्ति तदा विज्ञेयः; सूक्ष्मस्तु यदा एकस्मिन् विवक्षिताकाशखण्डके मृतः पुनः यदा तस्य अनन्तरप्रदेशवृद्ध्या सर्व लोकाकाशं व्याप्नोति तदा ग्राह्यः । कालतो बादरो यदा उत्सर्पिण्यवसर्पिणीसमयाः क्रमोत्क्रमाभ्यां म्रियमाणेन आलिङ्गिता भवन्ति तदा विज्ञेयः; सूक्ष्मस्तु उत्सपिणीप्रथमसमयाद् आरभ्य क्रमेण सर्वसमया म्रियमाणेन यदा छुप्ता भवन्ति तदा अवगन्तव्यः । भावतो बादरो यदा अनुभागबन्धाध्यवसायस्थानानि क्रमोत्क्रमाभ्यां म्रियमाणेन व्याप्तानि भवन्ति तदा अभिधीयते, अनुभागबन्धाध्यवसायप्रमाणं तु संयमस्थानावसरे प्रागेव अभ्यधायीति;
टि० १. ०स्यान्यत्राप्यादावयमेव च ॥ २. तूच्चैर्गोत्रे द्वितीयो भङ्गकः, कस्यचित् प्रथमसमय एवापरस्यान्तर्मुहूर्ता!( द्वो )र्द्धमुच्चैर्गोत्रसम्बन्धसद्भावे चतुर्थभङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्धः उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति द्वितीयः, तथा च ॥ ३. कलङ्कली० घ ङ ।। ४. आपन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलिते वा तिर्यक्ष्वास्तेऽनन्ता उत्सपिण्य० ग घ ङ ।। ५. ०तैजस-कार्मणभाषा० च ।। ६. ०वर्तिना ख ॥ ७. ०णेनालिङ्गिता भवन्ति तदा ग ॥ ८. ०स्तु तदा विज्ञेयो यदै० खच पुस्तके विना ॥ ९. प्लुता च ॥
वि०टि० + “सत्कर्मताऽपीति सत्ताऽपीति'' जै०वि०प० ॥ A "कलङ्कलीभाव इति अरघट्टघटीयन्त्रन्यायेन" जै०वि०प० ॥ ॐ सूक्ष्मत्रसेषु = तेजो-वायुषु इति भावः ॥
२१६