________________
॥ तृतीय उद्देशकः ॥
उक्तो द्वितीयोद्देशकः । साम्प्रतं तृतीय आरभ्यते । अस्य च अयमभिसम्बन्धः-इह अनन्तरोद्देशके 'संयमे दृढत्वं कार्यम्, असंयमे चादृढत्वम्' उक्तम्, तच्च उभयमपि कषायव्युदासेन सम्पद्यते । तत्रापि मानः उत्पत्तेः आरभ्य उच्चैर्गोत्रोत्थापितः स्यात्, अतस्तद्व्युदासार्थं इदमभिधीयते ।
अस्य च अनन्तरसूत्रेण सम्बन्ध: - ' जहेत्थ कुसले 'नोवलिप्पेज्जासि' [सू०७४] कुशलः= निपुणः सन् अस्मिन् उच्चैर्गोत्राभिमाने यथा आत्मानं नोपलिप्पयेः तथा विदध्याः त्वम् । किं मत्वा ? इति, अतस्तदभिधीयते—–
[सू०] से असई उच्चागोए असई णीयागोए ।
णो हीणे, णो अतिरित्ते । णो पीहए ।
से असई उच्चागोए असई नीचागोए ति । स इति संसारी असुमान् असकृत् = अनेकशः उच्चैर्गोत्रे मान- सत्कारार्हे उत्पन्न इति शेषः; तथा असकृत् नीचैर्गोत्रे सर्वलोकावगीते पौनःपुन्येन उत्पन्न इति । तथा हि
( नीचैर्गोत्रोदयाद् अनन्तमपि कालं तिर्यक्षु आस्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्मा सन् तथाविधाध्यवसायोपपन्नः आहारकशरीर-तत्सङ्घात-बन्धना-ऽङ्गोपाङ्गदेवगत्यानुपूर्वीद्वय-नरकगत्यानुपूर्वीद्वय - वैक्रियचतुष्टयरूपा एता द्वादश कर्मप्रकृती: निर्लेप्य अशीतिसत्कर्मा तेजो-वायुषु उत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रं उद्वलयति पल्योपमासङ्ख्येयभागेन; अतस्तेजो-वायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्धः
टि० १. नोवलिंपेज्जासि ग ॥ २. ०त्राभिधाने ख च ॥ वि०टि०
" आद्य एव इति सप्तत्या [?] प्रकारप्रसिद्धगोत्रसम्बन्धे सप्तभङ्ग्य (ङ्गा) न् हृदि व्यवस्थाप्यासिस्व[?]वल्लिखति आ " जै०वि०प० ॥
ङपुस्तके तु एतादृक् कोष्टकमुपलभ्यते—
नी नी नी उ उ ० ० बन्धः
o
इति संखाए के गोतावादी ? के माणावादी ? कंसि वा एगे गिज्झे ? तम्हा पंडिते णो हरिसे, णो कुज्झे ॥७५॥
o
उ
उ
नी
नी
नी
उ
उ
उ
उ
नी
उ
२
२
२
२
उ
नी
२
नी
नी
उ स [? उ ]
नी नी उ नी उ उ उ उदयः
नी २ २ २ २ २ उ सत्ता
२१५