________________
[श्रु०१। अ०२। उ०२। सू०७४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
जहेत्थ इत्यादि । तेषु तेषु आत्मबलोपधानादिकेषु कार्येषु समुत्थितेषु सत्सु दण्डसमुपादानादिकं परिहरन् कुशल: निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वं आत्मानं नोपलिम्पये:-न तत्र संश्लेषं कुर्याः इति । विभक्तिपरिणामाद् वा एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे तथा सर्वैः प्रकारैः कुर्याः त्वम्, इतिशब्द: परिसमाप्तौ, ब्रवीमि इति पूर्ववत् ॥७४।।
॥ लोकविजये द्वितीय उद्देशकः समाप्तः ॥छ।।
टि० १. समुपस्थितेषु ख ॥ २. त्वमात्मानं ख घ ङ ।
२१४