________________
दण्डविरतिरेवार्यप्रवेदितो मार्गः
इत्याशया बत विमोहितमानसानां, कालः प्रयाति मरणावधिरेव पुंसाम् ॥" [ "एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर । इत्याद्याशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥" [ तदेवं ज्ञात्वा किं कर्तव्यम् ? इत्याह
[श्रु०१ । अ०२ । उ०२ । सू०७४]
] इत्यादि ॥७३॥
[सू०] तं परिण्णाय मेहावी णेव सयं एतेहिं कज्जेहिं दंडं समारभेज्जा, णेव अण्णं एतेहिं कज्जेहिं दंडं समारभावेज्जा, वन्ने एतेहिं कज्जेहिं दंडं समारभंते समणुजाणेज्जा ।
तं इत्यादि । तद् इति सर्वनाम प्रक्रान्तपरामर्शि, तत् शस्त्रपरिज्ञोक्तं स्वकायपरकायादिभेदभिन्नं शस्त्रं इह वा यदुक्तमप्रशस्तगुणमूलस्थानं विषय - कषाय- माता- पित्रादिकम्, तथा कालाकालसमुत्थान-क्षणपरिज्ञान- श्रोत्रादिविज्ञानप्रहाणादिकम्, तथा आत्मबलाधानाद्यर्थं च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत् मेधावी=मर्यादावर्ती ] | ज्ञातहेयोपादेयः सन् किं कुर्यात् ? इत्याह—
४
एवम्भूतं च मार्गं ज्ञात्वा किं कर्तव्यम् ? इत्याह
नेव सयमित्यादि । नैव स्वयम् आत्मना एतैः आत्मबलाधानादिकैः कार्यैः कर्तव्यैः `समुत्थितैः सद्भिः दण्डं सत्त्वोपघातं समारभेत, नाप्यन्यम् अपरमेभिः कार्यैः हिंसाऽनृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमपि अपरं योगत्रिकेण न समनुज्ञापयेत् । एष च उपदेशः तीर्थकृद्भिः अभिहित इति एतत् सुधर्मस्वामी जम्बूस्वामिनं आह इति दर्शयति
एस मग्गे आरिएहिं पवेदिते जहेत्थ कुसले गोवलिंपेज्जासि त्ति बेमि ॥७४॥ ॥ लोगविजयस्स बिइओ उद्देसओ सम्मत्तो ॥
एस इत्यादि । एष इति ज्ञानादियुक्तो भावमार्गो योगत्रिक - करणत्रिकेण दण्डसमादानपरिहारलक्षणो वा, आर्यैः आराद् याताः सर्वहेयधर्मेभ्य इति आर्याः संसारार्णवतटवर्तिनः `क्षीणघातिकर्मांशाः संसारोदरविवरवर्तिभावविदः तीर्थकृतः, तै: प्रकर्षेण सदेव-मनुजायां परिषदि सर्वस्वभाषानुगामिन्या वाचा यौगपद्याशेषसंशीतिच्छेत्या प्रकर्षेण वेदितः=कथितः प्रतिपादित इति यावत् ।
टि० १. ०क्षणापरिज्ञान० ग ङ ॥ २. समुपस्थितैः ख च ॥ ३. क्षीणकर्मांशाः ख ॥। ४. च धर्मं ज्ञात्वा ख ॥
२१३