SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०२। सू०७३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् उपचरति; 'अतिथिबलं वा मे भविष्यति' अतिथीन् उपचरति, अतिथि: हि निस्पृहोऽभिधीयते इति । उक्तं च "तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥" [ एतदुक्तं भवति-तबलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्य इति । एवं कृपणश्रमणार्थमपि वाच्यमिति । एवं पूर्वोक्तैः विरूपरूपैः नानाप्रकारैः पिण्डदानादिभिः कार्यैः दण्डसमादानम् इति दण्ड्यन्ते=व्यापाद्यन्ते प्राणिनो येन स दण्डः, तस्य सम्यग् आदानं ग्रहणं समादानम्, 'तद् आत्मबलादिकं मम न अभविष्यद् यदि अहं एतद् न अकरिष्यम्' इत्येवं सम्प्रेक्षया पर्यालोचनया, एवं सम्प्रेक्ष्य वा भयात् क्रियते । एवं तावद् इहभवं आश्रित्य दण्डसमादानकारणं उपन्यस्तम्; आमुष्मिकार्थमपि परमार्थं अजानानैः दण्डसमादानं क्रियत इति दर्शयति पावमोक्खो त्ति इत्यादि । पातयति 'पांसयतीति वा पापम्, तस्माद् मोक्षः पापमोक्षः, इति हेतोः, यस्माद् मम भविष्यति इति मन्यमानः दण्डसमादानाय प्रवर्तत इति । तथा हि- हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपापविध्वंसनाय पिप्पल-शमी-सुमित्-तिला-ऽऽज्यादिकं शठव्युद्ग्राहितमतयो जुह्वति; तथा पितृ पिण्डदानादौ बस्तादिमांसोपस्कृ तभोजनादिकं द्विजातिभ्य उपकल्पयन्ति; तद्भुक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते । तदेवं नानाविधैः उपायैः अज्ञानोपहतबुद्धयः पापमोक्षार्थं दण्डोपादानेन ताः ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणा अनेकभवशतकोटीदुर्मोचं अघमेव उपाददत इति । किञ्च___अदुवा इत्यादि । पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम् । अथवा आशंसनम् आशंसा अप्राप्तप्रापणाभिलाषः, तदर्थं दण्डसमादानं आदत्ते । तथा हि-'मम एतत् परुत्परारि वा प्रेत्य वा उपस्थास्यते' इति आशंसया क्रियासु प्रवर्तते, राजानं वा अर्थाशाविमोहितमना अवलगति । उक्तं च "आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि । टि० १. पासयतीति क च ङ ॥ २. इत्येवं मन्य० ग ङ ख च ॥ ३. ०घातात् पाप० ग च ।। ४. मांसोपसंस्कृत० ख-चप्रती विना ।। २१२
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy