________________
इत्याह
अर्थलुब्धानां स्वरूपम्
[श्रु०१। अ०२ । उ०२ । सू०७३]
पंडिलेहाए इत्यादि । प्रत्युपेक्षणया गुण-दोषपर्यालोचनया उपपन्नः सन्, अथवा लोभविपाकं प्रत्युपेक्ष्य= पर्यालोच्य तदभावे गुणं च, लोभं नावकाङ्क्षति-नाभिलषतीति । यश्च अज्ञानोपहतान्त:करण: अप्रशस्तगुणमूलस्थानवर्ती विषय- केषायाद्यध्युपपन्नः तस्य पूर्वोक्तं विपरीततया सर्वं सन्तिष्ठते । तथा हि-अलोभं लोभेन जुगुप्समानो लब्धान् कामान् अवगाहते, लोभं अनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सकर्मा न जानाति नापि पश्यति, अपश्यंश्च अप्रत्युपेक्षणया अभिकाङ्क्षति । यच्च प्रथमोद्देशके अप्रशस्तगुणमूलस्थानं अवाचि तच्च वाच्यमिति ॥७१॥ आह च
[सू०] अहो य रातो य परितप्पमाणे कालाकालसमुट्ठायी संजोगट्ठी अट्ठालोभी आलूंपे सहसक्कारे विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो ॥ ७२ ॥
अहो य राओ य परितप्यमाणे इत्यादि । अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तः अत्र शस्त्रे= पृथिवीकायाद्युपघातकारिणि पौनः पुण्येन वर्तते ॥७२॥ किञ्च -
[सू०] से आतबले, से णातबले, से मित्तबले, से पेच्चबले, से देवबले, से रायबले, से चोरबले, से अतिथिबले, से किवणबले, से समणबले, इच्चेतेहिं विरूवरूवेहिं कज्जेहिं दंडसमादाणं सपेहाए भया कज्जति, पावमोक्खो त्ति मण्णमाणे अदुवा आसंसाए ॥७३॥
=
अपराश्च
से आयबले । आत्मनः बलं शक्त्युपचयः - आत्मबलम्, 'तन्मे भावी' इति कृत्वा नानाविधैः उपायैः आत्मपुष्टये ताः ताः क्रिया ऐहिका-ऽऽमुष्मिकोपघातकारिणीः विधत्ते, तथा हि-मांसेन पुष्यते मांसं इति कृत्वा पञ्चेन्द्रियघातादावपि प्रवर्तते, आलुम्पनादिकाः क्रिया सूत्रेणैव अभिहिताः । एवं तद् ज्ञातिबलं - ' स्वजनबलं मे भावी'ति; तथा ‘तद् मित्रबलं मे भविष्यति येन अहमापदं सुखेनैव निस्तरिष्यामि'; 'तत् प्रेत्यबलं मे भविष्यती'ति बस्त्यादिकं उपहन्ति; 'तेद् वा देवबलं भावी'ति पचन - पाचनादिकाः क्रिया विधत्ते; ‘राजबलं वा मे भविष्यति' राजानं उपचरति'; 'चोरभागं वा समत्स्यामि' चौरान्
टि० १. पडिलेहए क ॥। २. ० कषायाध्युपपन्न० ख च । ०कषायाद्युपपन्न० ग ॥ ३. विदधाति ख ॥। ४. जातिबलं घ च ॥ ५ तथा देव० ख ग ।। ६. ०ति । चौरग्रामे वा वसति चोरभागं ग ॥
२११