________________
[श्रु०१ । अ०२ । उ०२ । सू०७१]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
लोभं इत्यादि ।[इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति । तथा हि— क्षपकश्रेण्यन्तर्गतस्य अपगताशेषकषायस्यापि खण्डशः क्षेप्यमाणोऽपि अनुबध्यत इति; अतस्तं लोभं तद्विपक्षेण अलोभेन जुगुप्समानः = निन्दन् परिहरन् किं करोति ? इत्याहद्धे कामे इत्यादि । लब्धान् = प्राप्तान् इच्छा-मदनरूपान् कामान् नाभिगाहते= न सेवते । यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान् न भवति ब्रह्मदत्तामन्त्रितचित्रवद् इति । प्रधाना - ऽन्त्यलोभपरित्यागेन च उपसर्जना - ऽधस्तनपरित्यागो दृष्टव्यः, तद्यथा—क्रोधं क्षान्त्या जुगुप्समानः, मानं मार्दवेन, माया आर्जवेन इत्याद्यपि आयोज्यम् । लोभोपादानं तु सर्वकषायप्राधान्यख्यापनार्थम्, तथा हि-तत्प्रवृत्तः साध्या-ऽसाध्यविवेकविकलः कार्या- ऽकार्यविचाररहितः सन्नर्थैकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रिया अधितिष्ठतीति । तदुक्तम्—
44
'धावेइ रोहणं तरइ सायरं भमइ गिरिणिगुंजेसुं ।
मारेइ बंधवं पि हु पुरिसो जो होइ धणलुद्धो ॥
अइ बहुं वह भरं सहइ छुहं पावमायर धो । कुल-सील - जाइपच्चट्ठिइं च लोभद्दुओ चयइ ॥” [ ] इत्यादि । तदेवं कुतश्चिन्निमित्तात् सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः । अन्यस्तु लोभं विनाऽपि प्रव्रज्यां प्रतिपद्यत इति दर्शयति
विणा वि लोभं निक्खम्म एस अकम्मे जाणति पासति, पडिलेहाए णावकंखति, एैस अणगारे त्ति पवुच्चति ॥७१॥
विणा विलोभमित्यादि । कश्चित् भरतादिः निःशेषतो लोभापगमात् विनापि लोभं निष्क्रम्य = प्रव्रज्यां प्रतिपद्य, पाठान्तरं वा विणइत्तु लोभं सञ्ज्वलनसञ्ज्ञकमपि लोभं विनीय=निर्मूलतोऽपनीय, एष एवम्भूतः सन् अकर्मा=अपगतघातिकर्मचतुष्टयाविर्भूतानावरणज्ञानो विशेषतो जानाति, सामान्यतः पश्यति । एतदुक्तं भवति - एवम्भूतः लोभो येन तत्क्षये मोहनीयक्षयः, मोहनीयक्षये च अवश्यम्भावी घातिकर्मक्षयः, तस्मिश्च निरावरणज्ञानसद्भावः, ततोऽपि भवोपग्राहिकर्मापगम इति; अतो लोभापगमे अकर्मा इत्युक्तम् । यतश्च एवम्भूतो लोभो दुरन्तः तद्धानौ चावश्यं कर्मक्षयः ततः किं कर्तव्यम् ?
टि० १. क्षिप्यमाणो ० ख च ॥ २. ०ख्यापनार्थमुपाददे, तथाहि कप्रतिमृते । ३. ०जायपच्चयठिनं ग ङ । ०जाइपच्चयधिइं य । ०जायपच्चयथिई च ॥ ४. ० चतुष्टयः आविर्भूता० ख ॥
वि०टि० = वृत्तिकारशीलाचार्यैः एतद्सूत्रदलं न विवृत्तम् ॥
२१०