________________
अनगारस्य स्वरूपम्
[श्रु०१ । अ०२ । उ०२ । सू०७१]
एत्थ मोहे पुणो पुणो सण्णा णो हव्वाए णो पाए ॥७०॥ अणाणाए इत्यादि । अनाज्ञया स्वैरिण्या बुद्ध्या मुनय इति मुनिवेषविडम्बिनः कामोपायान् प्रत्युपेक्षन्ते कामोपायारम्भेषु पौनः पुण्येन लगन्तीति । आह च
एत्थ इत्यादि । अत्र = अस्मिन् विषयाभिष्वङ्गा - ऽज्ञानमये भावमोहे पौनः पुण्येन सन्ना:: - विषण्णा निमग्नाः पङ्कावमग्ना नागा इव आत्मानं आक्रष्टुं नालमिति । आह च
नो हव्वाए नो पाराए । यो हि मध्येमहानदीपूरं निमग्नो भवति असौ नारातीयतीराय नापि पारेमहानदीपूरमिति; एवमुत्रापि कुतश्चिन्निमित्तात् त्यक्तगृह-गृहिणीपुत्र-धन-धान्य- हिरण्य - रत्न - कुप्य - दासी - दासादिविभवः आकिञ्चन्यं प्रतिज्ञाय आरातीयतीरदेश्याद् गृहवाससौख्यात् निर्गतः सन् नो हव्वाए त्ति भवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावे तत्क्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोर्लीीँ इव उभयभ्रष्टो न गृहस्थो नापि प्रव्रजित इत्युक्तं भवति । उक्तं च" इन्द्रियाणि न गुप्तानि लालितानि ने वेच्छया ।
मानुष्यं दुर्लभं प्राप्य न भुक्तं न विशोषितम् ॥" [ ] इति ॥७०॥ ये पुनः अप्रशस्तरतिनिवृत्ताः प्रशस्तरतिं अधिशयानाः ते किम्भूता भवन्ति ? इत्याह[सू० ] विमुक्का हु ते जणा जे जणा पारगामिणो लोभमलोभेणं दुगुंछमाणो लद्धे कामे णाभिगाहति ।
विमुक्का इत्यादि । विविधं अनेकप्रकारं द्रव्यतो धन - स्वजनानुषङ्गाद् भावतो विषय-कषायादिभ्यः अनुसमयं मुच्यमाना एक 'भाविनि भूतवदुपचाराद्' मुक्ता:-विमुक्ताः ते जनाः ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारः =मोक्षः संसारार्णवतटवृत्तित्वात् तत्कारणानि ज्ञान - दर्शन - चारित्राण्यपि पार इति । भवति हि तादर्थ्यात् ताच्छब्द्यं यथा - तन्दुलान् वर्षति पर्जन्यः । अतस्तं पारं ज्ञान-दर्शन- चारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः । कथं पुनः सम्पूर्णपारगामित्वं भवति ? इत्याह
६
टि० १. ०विभवं ग । २. गृहपाशसौख्या० क ॥। ३. ०भावेन क्रियाया घ ङ ॥ ४. मुत्कोली ग । मुक्काली घ ङ ।। ५. न चेच्छया क घ ङ । च नेच्छ्या ग ॥ ६. - एतन्मध्यगः पाठः खआदर्शे नास्ति ||
▷
वि०टि० ⊕ “मुक्तोली इति मोट्टा [?] " जै०वि०प० । “उद्दे० २- मुक्तोली मोट्टा" स०वि०प० ।।
२०९