SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०२। सू०७०] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [सू०] अणाणाए पुट्ठा वि एगे णियटृति मंदा मोहेण पाउडा । 'अपरिग्गहा भविस्सामो' समुट्ठाए लद्धे कामेऽभिगाहति । अणाणाए इत्यादि । आज्ञाप्यत इत्याज्ञा हिता-ऽहितप्राप्ति-परिहाररूपतया सर्वज्ञोपदेशः, तद्विपर्ययोऽनाज्ञा, तया अनाज्ञया सत्या स्पृष्टाः परीषहोपसर्गः; अपिशब्दः सम्भावनायाम्, स च भिन्नक्रमः, निवर्तन्त इति अस्मादनन्तरं दृष्टव्यः । एके मोहनीयोदयात् कण्डरीकादयः, न सर्वे, संयमात् समस्तद्वन्द्वोपशमरूपाद् निवर्तन्ते अपि इति; सम्भाव्यत एतद् मोहोदयाद् इति अपिशब्दार्थः । किम्भूताः सन्तो निवर्तन्ते ? इत्याहमन्दा:=जडा अपगतकर्तव्या-ऽकर्तव्यविवेकाः । कुत एवम्भूताः ? यतो मोहेन प्रावृताः, मोहः अज्ञानं मिथ्यात्वमोहनीयं वा, तेन प्रावृताः अवगुण्ठिताः । उक्तं च "अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ॥" [ ] इत्यादि । तदेवं अवाप्तचारित्रोऽपि कर्मोदयात् परीषहोदये कृतलिङ्गपश्चाद्भावतां अवलम्बत इत्युक्तम् । अपरे तु स्वरुचिविरचितवृत्तयो नानाविधैः उपायैः लोकादर्थं जिघृक्षवः किल वयं संसारोद्विग्ना मुमुक्षवः तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवर्तन्त इति दर्शयति अपरिग्गहा इत्यादि । परिः समन्ताद् मनो-वाक्-कायकर्मभिः गृह्यत इति परिग्रहः, स येषां नास्ति इति अपरिग्रहाः, एवम्भूता वयं भविष्यामः' इति शाक्यादिमतानुसारिणः स्वयूथ्या वा समुत्थाय-चीवरादिग्रहणं प्रतिपद्य ततो लब्धान् कामान् अभिगाहन्ते =सेवन्ते, तिब्यत्ययेन चैकवचनमिति । अत्र च अन्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि'अहिंसका वयं भविष्यामः', एवं अमृषावादिन इत्यादि आयोज्यम् । तदेवं शैलूषा इव अन्यथावादिनः अन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषान् बिभ्रति । उक्तं च "स्वेच्छाविरचितशास्त्रैः प्रव्रज्यावेषधारिभिः क्षुद्रैः ।। नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥" [ ] इत्यादि । तदेवं प्रव्रज्यावेषधारिणो लब्धान् कामानवगाहन्ते; तल्लाभार्थं च तदुपायेषु प्रवर्तन्ते इत्याह अणाणाए मुणिणो पडिलेहेंति । टि० १. मोहोदयस्य इत्यपि ख ॥ २. मोहादिभ्यो० ख ॥ ३. कर्मोदयाङ्गीकृतलिङ्गपश्चाद्भा० ग ॥ ४. लोकं जिघ० ख । लोकार्थं क ।। ५. इत्यप्यायोज्यम् ख । २०८
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy