________________
अरतित्यागे मोक्षः
[श्रु०१। अ०२। उ०२। सू०६९]
यो हि अज्ञानी मोहोपहतचेताः स विषयाभिष्वङ्गात् संयमे सर्वद्वन्द्वप्रत्यनीके रत्यभावं विदध्यात् । आह च
"अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा । विद्वच्चित्तं भवति हि मेहन्मोक्षमार्गकतानं,
नाल्पस्कन्धे विटपिनि कषत्यसभित्तिं गजेन्द्रः ॥" [ ] नैतन्मृष्यामहे, यतो हि अवाप्तचारित्रस्य अयमुपदेशो दित्सितः; चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाच्चारित्रस्य । न च ज्ञाना-ऽरत्योः विरोधः, अपि तु रत्यरत्योः; ततश्च संयमगता रतिरेव अरत्या बाध्यते, न ज्ञानम्; अतो ज्ञानिनोऽपि चारित्रमोहनीयोदयात् संयमे स्यादेव अरतिः, यतो ज्ञानमपि अज्ञानस्यैव बाधकम्, न संयमारतेः । तथा चोक्तम्
"ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युङ्क्ते न कर्तृ स्वयम् । दीपो यत् तमसि व्यनक्ति किमतो रूपं स एवेक्षतां, .
सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः ॥" [ ] तथा इदमपि भवतो न कर्णविवरमगाद् यथा
__"बलवानिन्द्रियग्रामः पण्डितोऽप्यत्र मुह्यति ॥" [ ] इति । अतो यत्किञ्चिदेतत् । अथवा न अरत्यापन्न एव एवमुच्यते, अपि तु अयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् कं गुणमवाप्नोति ? इत्याह
खणंसि मुक्के । परमनिरुद्धः काल:-क्षण: पट्टशाटिकापाटनदृष्टान्तसमयप्रसाधितः, तत्र मुक्तः । विभक्तिपरिणामाद् वा क्षणेन अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्ग-स्नेहादिभिः मुक्तो भरतवदिति ॥६९।।
__ये पुनरनुपदेशवर्तिनः कण्डरीकाद्याः ते चतुर्गतिकसंसारान्तर्वतिनो दुःखसागरं अधिवसन्ति इत्याह च
टि० १. मोहनीयोपहत० क ॥ २. महामोक्ष० ख च ॥ ३. क्षणः जरत्पट्ट० ग च ॥ ४. वा विमुक्तः स्नेहाभिष्वङ्गादिभिर्मुक्तः ख ॥ ५. भरतादिवदिति च ॥
वि०टि० @ "हेतुम् इति वैराग्यादि' जै०वि०प० ।।
२०७