________________
पश्यकस्योपदेशाभावः
[श्रु०१ । अ०२ । उ०३ । सू०८० ] अखेदज्ञः =अकुशलः, खेदज्ञो वा असंयमस्थाने, तस्मिंश्च साम्प्रतेक्ष्याचरिते उपदिष्टे वा तिष्ठति, तत्रैव असंयमस्थाने अध्युपपन्नो भवतीति यावत् । अथवा वितथम् इति आदानीय-भोगाङ्गव्यतिरिक्तं संयमस्थानं तत् प्राप्य खेदज्ञः - निपुणः तस्मिन् स्थाने आदानीयस्य हन्तृणि तिष्ठति, सर्वज्ञाज्ञायां आत्मानं व्यवस्थापयतीत्यर्थः ॥७९(२)||
अयं च उपदेशः अनवगततत्त्वस्य विनेयस्य यथोपदेशं प्रवर्तमानस्य दीयते यस्तु अवर्गतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्ते इत्याह च
[सू० ] उद्देसो पासगस्स णत्थि ।
उद्देसो इत्यादि । उद्दिश्यते इति उद्देश : ( उपदेश: सदसत्कर्तव्याऽकर्तव्यादेशः सः, पश्यतीति पश्यः, स एव पश्यकः, तस्य न विद्यते, स्वत एव विदितवेद्यत्वात् तस्य । अथवा पश्यतीति पश्यकः सर्वज्ञः तदुपदेशवर्ती वा तस्य, उद्दिश्यत इति उद्देश : नारकादिव्यपदेशः उच्चा - ऽवचगोत्रादिव्यपदेशो वा से तस्य न विद्यते, तस्य प्रागेव मोक्षगमनादिति भावः । कः पुनः यथोपदेशकारी न भवति ? इत्याह
बाले पुण णिहे कामसमणुण्णे असमितदुक्खे दुक्खी दुक्खाणमेव आवट्टं अणुपरिट्टति त्ति बेमि ॥८०॥
॥ लोगविजयस्स ततीयो उद्देसओ सम्मत्तो ॥
बाले इत्यादि । बालो नाम रागादिमोहितः, स पुनः कषायैः कर्मभिः परीषहोपसर्गैः वा निहन्यत इति निहः, निपूर्वाद् हन्तेः कर्मणि डः; अथवा स्निह्यत इति स्निहः स्नेहवान्, रागीत्यर्थः । अत एवाह - 'कामसमणुण्णे' कामाः इच्छा-मदनरूपाः सम्यग् मनोज्ञा यस्य स तथा, अथवा सह मनोज्ञैः वर्तत इति समनोज्ञः, गमकत्वात् सापेक्षस्यापि समासः, कामैः समनोज्ञः = कामसमनोज्ञः । यदि वा कामान् सम्यग् अनु= पश्चात् स्नेहानुबन्धाद् जानाति = सेवत इति कामसमनुज्ञः । एवम्भूतश्च किम्भूतो भवति ? इत्याह–‘असमियदुक्खे' अशमितम् - अनुपशमितं विषयाभिष्वङ्ग- कषायोत्थं दुःखं येन स तथा । यत एव अशमितदुःखोऽत एव दुःखी शारीर-मानसाभ्यां दुःखाभ्याम् । तत्र शारीरं कण्टक- शस्त्र - [-गण्डलूतादिसमुत्थम्; मानसं प्रियविप्रयोगा-ऽप्रियसंयोगेप्सिताऽलाभदारिद्र्य-दौर्भाग्य-दौर्मनस्यकृतम्; तद् द्विरूपमपि दुःखं विद्यते यस्यासौ दुःखी । एवम्भूतश्च सन् किमवाप्नोति ? इत्याह- दुक्खाणं इत्यादि । दुःखानां शारीर-मानसानां आवर्त
टि० १ ० गततत्त्वो हेयो० क ॥ २. उपदेशः ङ ॥। ३. द्रागेव क ग ऋते ॥ ४. विषयकषायोत्थं क ॥ ५. ० दौर्मनस्यभूतम् च ॥ ६. आवर्तः ख ॥
२२९
/