________________
॥ द्वितीय उद्देशकः ॥
उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयव्याख्या प्रतन्यते । अस्य च अयमभिसम्बन्धः–इह विषय-कषाय- माता - पित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्ण भावं अनुभवति एवंरूपः अध्ययनार्थाधिकारः प्राग् निरदेशि । तत्र मातापित्रादिलोकविजयेन रोग - जराद्यनभिभूतचेतसा आत्मार्थ:-संयमोऽनुष्ठेय इत्येतत् प्रथमोद्देशके अभिहितम् । इहापि तस्मिन्नेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयाद् अरतिः स्यात्, अज्ञान - कर्म - लोभोदयाद् वा अध्यात्मदोषेण संयमे न दृढत्वं भवेद् इत्यतः अरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथा अनेन प्रतिपाद्यते । अथवा यथा अष्टप्रकारं कर्म्म अपहीयते तथा अस्मिन्नध्ययने प्रतिपाद्यते इति अध्ययनार्थाधिकारे अभ्यधायि; तत् च कथं क्षीयते ? इत्याह
[सू०] अरति आउट्टे से मेधावी खणंसि मुक्के ॥६९॥
अरइं आउट्टे से मेहावी । अस्य च अनन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम् - आयट्टं समणुवासेज्जासि [सू०६८ ] आत्मार्थं - संयमं सम्यक् कुर्यात्, तत्र कदाचिद् अरत्युद्भवो भवेत् तदर्थमाह–अरइं इत्यादि । परम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए !' [सू०६८] क्षणं चारित्रावसरं अवाप्य अरतिं न कुर्याद् इत्याह- अरइं इत्यादि । आदिसूत्रसम्बन्धस्तु 'सुतं मे आउसं ! तेणं भगवया एवमक्खायं [सू०१], किं तत् श्रुतम् ? इत्याह- अरई आउट्टे से मेहावी |
रमणं=रतिः, तदभावः - अरतिः, तां पञ्चविधाचारविषयां मोहोदयात् कषायाभिष्वङ्गजनितां माता- पितृ - कलत्राद्युत्थापितां स इति अरतिमान् मेधावी विदितासारसंसारस्वभावः सन् आवर्तेत=अपवर्तेत, निवर्तयेद् इत्युक्तं भवति । संयमे चारतिः न विषयाभिष्वङ्गरतिमृते कैण्डरीकस्येव इति; अत इदमुक्तं भवति - विषयाभिष्वङ्गे रतिं निवर्तेत । निवर्तनं चैवं उपजायते—यदि दशविधचक्रवालसामाचारीविषया रतिः उत्पद्यते पौण्डरीकस्येव इति; ततश्च इदमपि उक्तं भवति—संयमे रतिं कुर्वीत । तद्विहितरतेस्तु न किञ्चिद् बाधायै नापि इह अपरसुखोत्तरबुद्धिरिति, आह
" क्षितितलशयनं वा प्रान्तभैक्षाशनं वा,
टि० १. अरई ग ॥। २ ० सित्ति बेमि आत्मार्थं ख ॥। ३. अरई ग च ॥ वि०टि०
दृश्यतां ज्ञाताधर्मकथाङ्गे एकोनविंशतितमं कण्डरीक - पौण्डरीकज्ञातम् ॥
२०५