SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् तदेवं चतुर्विधोऽपि क्षण उक्तः, तद्यथा-द्रव्यक्षणः जङ्गमत्वादिविशिष्टं मनुष्यजन्म, क्षेत्रक्षणः आर्यक्षेत्रम्, कालक्षणः धर्मचरणकालः, भावक्षणः क्षयोपशमादिरूप इति; एवम्भूतं अवसर अवाप्य आत्मार्थं समनुवासयेदिति उत्तरेण सम्बन्धः । किञ्च जाव सोतपण्णाणा अपरिहीणा जाव णेत्तपण्णाणा अपरिहीणा जाव घाणपण्णाणा अपरिहीणा जाव जीहपण्णाणा अपरिहीणा जाव फासपण्णाणा अपरिहीणा, इच्चेतेहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आयटुं सम्मं समणुवासेज्जासि त्ति बेमि ॥६८॥ ॥ लोगविजयस्स पढमो उद्देसओ सम्मत्तो ॥ जाव इत्यादि । यावदस्य विशरारोः कायापशदस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति; एवं नेत्र-घ्राण-रसन-स्पर्शनविज्ञानानि न विषयग्रहणस्वभावतया मान्द्यं प्रतिपद्यन्ते, इत्येतैः विरूपरूपैः इष्टा-ऽनिष्टरूपतया नानारूपैः प्रज्ञान:= प्रकृष्टैः ज्ञानैः अपरिहीयमाणैः सद्भिः किं कुर्यात् ? इत्याह आयर्ल्ड इत्यादि । आत्मनोऽर्थः-आत्मार्थः, स च ज्ञान-दर्शन-चारित्रात्मकः, अन्यस्तु अनर्थ एव । अथवा आत्मने हितं प्रयोजनम् आत्मार्थम्; तच्च चारित्रानुष्ठानमेव । अथवा आयतः अपर्यवसानाद् मोक्ष एव, स चासौ अर्थश्च आयतार्थः, अतस्तम्, यदि वा आयतः मोक्षः अर्थः प्रयोजनं यस्य दर्शनादित्रयस्य तत् तथा । समनुवासयेः इति "वेस निवासे''[पा०धा०१/१००५] इति अस्माद्धेतुमण्णिजन्ताल्लिट्सिप्, सम्यग् यथोक्तानुष्ठानेन अनु=पश्चाद् अनभिक्रान्तं वयः सम्प्रेक्ष्य क्षणम् अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां च अप्रहीणतां अधिगम्य तत आत्मार्थं समनुवासये: आत्मनि विदध्याः । अथवा "अर्थवशाद् विभक्ति-पुरुषपरिणामः" इति कृत्वा तेन वा आत्मार्थेन ज्ञान-दर्शनचारित्रात्मकेन आत्मानं समनुवासयेत्=भावयेद् रञ्जयेत्, आयतार्थं वा ‘मोक्षार्थं सम्यग् अपुनरागमनेन अनु इति यथोक्तानुष्ठानात् पश्चादात्मना समनुवासयेत्=अधिष्ठापयेत्, इतिः परिसमाप्तौ, ब्रवीमि इति सुधर्मस्वामी जम्बूस्वामिनं इदमाह यद् भगवता वर्धमानस्वामिना अर्थतोऽभ्यधायि तदेव अहं सूत्रात्मना वच्मीति ॥६८॥ ॥ लोकविजयस्य प्रथम उद्देशकः समाप्तः ॥छ। टि० १. अपरिक्षीयमाणैः ख विना ॥ २. ०आत्मार्थः ख च ॥ ३. अपर्यवसानो मोक्ष क ॥ ४. समनुवासयेत् क च ॥ ५. वसु ख ॥ ६. वाऽ० ग च ॥ ७. चाऽऽ० ग ङ च ॥ ८. मोक्षाख्यं कपुस्तकमृते ॥ ९. ०दात्मानं ग ॥ १०. वीरवर्द्धमान० ग । श्रीवर्धमान० घ ङ ॥ ११. द्वितीयाध्ययनस्य प्रथमोद्देशक इति ख च । लोकविजयस्य इति पाठः कआदर्श एव ।। २०४
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy