SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आलस्याद्यभावे सम्यक्त्वप्राप्तिः [श्रु०१। अ०२ । उ०१ । सू०६८ ] उपशमिते अन्तर्मौहूर्तिकः औपशमिकचारित्रक्षणो भवति । तस्यैव मोहनीयस्य क्षयेण अन्तर्मौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति । क्षयोपशमेन क्षायोपशमिकचारित्रावसरः, स च उत्कृष्टतो देशोनां पूर्वकोटिं यावद् अवगन्तव्यः । सम्यक्त्वक्षणस्तु अजघन्योत्कृष्टस्थितौ आयुषः वर्तमानस्य, शेषाणां तु कर्मणां पल्योपमासङ्ख्येयभागन्यूनान्त:सागरोपमकोटीकोटिस्थितिकस्य जन्तोर्भवति । स च अने क्रमेणेति— ग्रन्थिकसत्त्वेभ्योऽभव्येभ्योऽनन्तगुणया शुद्धया विशुद्ध्यमानो मति - श्रुतविभङ्गान्यतरसाकारोपयुक्तः शुद्धलेश्यात्रिकान्यतरलैश्यः अशुभकर्मप्रकृतीनां चतुःस्थानिकं रसं द्विस्थानिकतां आपादयन् शुभानां च द्विस्थानिकं चतु:स्थानिकतां नयन्, बध्नंश्च ध्रुवप्रकृती: परिवर्तमानाश्च भवप्रायोग्या बध्नन्निति । ध्रुवकर्मप्रकृतयश्च इमाः–पञ्चधा ज्ञानावरणीयं नवधा दर्शनावरणीयं मिथ्यात्वं कषायषोडशकं भयं जुगुप्सा तैजस-कार्मणशरीरे वर्ण-गन्ध-रस-स्पर्शा-ऽगुरुलघु-उपघात-निर्माणनामानि पञ्चधा अन्तरायम्, एताः सप्तचत्वारिंशद् ध्रुवप्रकृतयः, आसां सर्वदा बध्यमानत्वात् । मनुष्य-तिरश्चोः अन्यतरः प्रथमं सम्यक्त्वं उत्पादयन् एता ऐकविंशतिं परिवर्तमाना बध्नाति, तद्यथा - देवगत्या-नुपूर्वीद्वयपञ्चेन्द्रियजाति-वैक्रि यशरीराऽङ्गोपाङ्गद्वय- समचतुरस्रसंस्थान - पराघात - उच्छ्वासप्रशस्तविहायोगति-त्रसादिदशक - सातावेदनीय - उच्चैर्गोत्ररूपा इति । देव - नारकास्तु मनुष्यगत्यानुपूर्वीद्वय-औदारिकद्वय- प्रथमसंहननसहितानि शुभानि बध्नन्ति । तमतमानारकास्तु तिर्यग्गत्यानुपूर्वीद्वय-नीचैर्गोत्रसहितानीति । तदध्यवसायोपपन्नः सन् आयुष्कं अबध्नन् यथाप्रवृत्तेन करणेन ग्रन्थिं आसाद्य अपूर्वकरणेन भित्त्वा मिथ्यात्वस्य अन्तरकरणं विधाय अनिवृत्तिकरणेन सम्यक्त्वं अवाप्नोति । तत ऊर्ध्वं क्रमेण क्षीयमाणे कर्मणि प्रवर्धमानेषु कण्डकेषु देशविरत्यादेः अवसर इति । - नोकर्मभावक्षणस्तु आलस्य-मोहा-ऽवर्णवाद-स्तम्भाद्यभावे सम्यक्त्वाद्यवाप्त्यवसरः इति । आलस्यादिभिस्तु उपहतो लब्ध्वाऽपि संसारलङ्घनक्षमं मनुष्यभवं बोध्यादिकं नाप्नोतीति । उक्तं च 'आलस्स मोहऽवण्णा थंभा कोहा पमाय किवणत्ता । भय सोगा अण्णाणा वक्खेव कुतूहला रमणा ॥ एहिँ कारणेहिं लद्धूण सुदुल्लहं पि माणुस्सं । न लहइ सुइं हियकरिं संसारुत्तारणि जीवो ॥ " 44 [आव०नि०८४१-४२, उत्तरा०नि०१६०-६२] टि० १. ० लेश्यासु च शुभ० ख ॥ २. एकविंशतिः च ॥ ३. शुद्धानि क ॥। ४. तदध्यवसायः सन्ना० ख ॥। ५. किविणत्ता ख ॥। ६. सोगो क ॥ २०३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy