________________
[श्रु०१। अ०२। उ०१। सू०६८] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् अनुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावद् आत्मार्थोऽनुष्ठेय इत्येतद् दर्शयति
अणभिक्कंतं च इत्यादि । चशब्द आधिक्ये, खलुशब्द: पुनरर्थे, पूर्वमभिक्रान्तं वयः . तीक्ष्य मूढभावं व्रजतीति प्रतिपादितम् । अनभिक्रान्तं च पुनः वयः सम्प्रेक्ष्य आयटुं समणुवासेज्जा इत्युत्तरेण सम्बन्धः, आत्मार्थम् आत्महितं समनुवासयेत् कुर्यादित्यर्थः । किं अनभिक्रान्तवयसा एव आत्महितं अनुष्ठेयं उत अन्येनापि ? इति, अपरेणापि लब्धावसरेण आत्महितं अनुष्ठेयमिति एतद् दर्शयति
खणं जाणाहि पंडिए ! । क्षण:-अवसरो धर्मानुष्ठानस्य, स च आर्यक्षेत्रसुकुलोत्पत्त्यादिकः । परिवाद-पोषण-परिहारदोषदुष्टानां जरा-बालभाव-रोगाणामभावे सति तं क्षणं जानीहि अवगच्छ पण्डित !=आत्मज्ञ ! । अथवा अवसीदन् शिष्यः प्रोत्साह्यते-हे . अनतिक्रान्तयौवन ! परिवादादिदोषत्रयास्पृष्ट ! पण्डित ! द्रव्य-क्षेत्र-काल-भावभेदभिन्नं क्षणम् अवसरं एवंविधं जानीहि-अवबुध्यस्व । तथा हि
द्रव्यक्षण: द्रव्यात्मकः अवसरो जङ्गमत्व-पञ्चेन्द्रियत्व-विशिष्टजाति-कुल-रूप-बलाऽऽरोग्या-ऽऽयुष्कादिको मनुष्यभावः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यः त्वया अवाप्तः, स च अनादौ संसारे पर्यटतः असुमतः दुरापो भवति, अन्यत्र तु नैतत् चारित्रमवाप्यते । तथा हिदेव-नारकभवयोः सम्यक्त्व-श्रुतसामायिके एव, तिर्यक्षु च कस्यचिद् देशविरतिरेव इति ।
क्षेत्रक्षण:-क्षेत्रात्मकः अवसर, यस्मिन् क्षेत्रे चारित्रमवाप्यते । तत्र सर्वविरतिसामायिकस्य अधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव, तत्रापि अर्धतृतीयद्वीप-समुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु, तत्रापि भरतक्षेत्रमपेक्ष्य अर्धषड्विंशेषु जनपदेषु इत्यादिकः क्षेत्रक्षणः क्षेत्ररूप: अवसरः अधिगन्तव्यः । अन्यस्मिंश्च क्षेत्रे आद्ये एव सामायिके ।
कालक्षणस्तु कालरूपः क्षणः अवसरः, स च अवसर्पिण्यां तिसृषु समासु सुषमदुःषमा-दुःषमसुषमा-दुःषमाख्यासु, उत्सर्पिण्यां तु तृतीय-चतुर्थारकयोः सर्वविरतिसामायिकस्य भवति । एतच्च प्रतिपद्यमानकं प्रत्यभ्यधायि, पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगूर्वाधोलोके सर्वासु च समासु दृष्टव्याः ।
भावक्षणस्तु द्वेधा-कर्मभावक्षणो नोकर्मभावक्षणश्च । तत्र कर्मभावक्षणः कर्मणां उपशम-क्षयोपशम-क्षयान्यतरावाप्तावसर उच्यते । तत्र उपशमश्रेण्यां चारित्रमोहनीये
टि० १. अवधारणे ख । पुनःशब्दार्थे ग च ॥ वि०टि० ०"जरा-बाल० इति पाश्चात्यैः यथासङ्ख्येन त्रिभिः संयोगः" जै०वि०प० ॥
२०२