________________
पण्डितानां क्षणज्ञानकर्तव्यता [श्रु०१। अ०२। उ०१। सू०६८] उपभोग्यद्रव्यनिचय इत्यर्थः । स इह-अस्मिन् संसारे एकेषाम् असंयतानां संयताभासानां वा केषाञ्चिद् भोजनाय-उपभोगार्थं क्रियते विधीयते इति । असावपि यदर्थं अनुष्ठितः अन्तरायोदयात् तत्सम्पत्तये न प्रभवति इत्याह
___ तओ से इत्यादि । ततः द्रव्यसन्निधिसन्निचयाद् उत्तरकालं उपभोगावसरे से तस्य बुभुक्षोः एकदा इति द्रव्य-क्षेत्र-काल-भावनिमित्ताविर्भावितवेदनीयकर्मोदये रोगसमुत्पादाः =ज्वरादिप्रादुर्भावाः समुत्पद्यन्त इति आविर्भवन्ति ।
स च तैः कुष्ठ-राजयक्ष्मादिभिरभिभूतः सन् भग्ननासिको गलत्पाणि-पादः अविच्छेदप्रवृत्तश्वासाकुलः किम्भूतो भवति ? इत्याह
जेहिं वा सद्धि संवसति ते व णं एगदा णियगा पुट्विं परिहरंति, सो वा ते णियए पच्छा परिहरेज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा सरणाए वा ॥६७॥
जेहिं इत्यादि । यैः माता-पित्रादिभिर्निजैः सार्द्ध संवसति त एव वा निजाः एकदा रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति, स वा तान् निजान् पश्चात् परिभवोत्थापितविवेकः परिहरेत्-त्यजेत्, तन्निरपेक्ष: सेडुकवत् स्यादित्यर्थः । ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति
नालमित्यादि पूर्ववत् ॥६७॥ रोगाद्यभिभूतान्त:करणेन च अपगतत्राणेन च किमालम्ब्य सम्यक्करणेन रोगवेदनाः सोढव्याः ? इत्याह[सू० ] एवं जाणित्तु दुक्खं पत्तेयं सातं अणभिक्कंतं च खलु वयं सपेहाए खणं जाणाहि पंडिते !
__ जाणित्तु इत्यादि । ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं सातं वा अदीनमन- " स्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति । उक्तं च
"सह कलेवर ! खेदमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥" [ ] यावच्च श्रोत्रादिविज्ञानैः परिहीयमानैः जराजीर्णं न निजाः परिवदन्ति यावच्च
टि० १. दर्शयितुमाह ग ॥ २. दुःखमचिन्तयन् ग घ ङ ॥ ३. कर्म हे ! कआदर्शमृते ॥
२०१