SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२ । उ०१ । सू०६६ ] क्रियाः करोति ? इत्याह वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् अकडं इत्यादि । अकृतम् इति यदन्येन नानुष्ठितं तदहं करिष्यामि इत्येवं मन्यमानोऽर्थोपार्जनाय हननादिषु प्रवर्तते । स एवं क्रूरकर्मातिशयकारी समुद्रलङ्घनादिका: क्रियाः कुर्वन्नपि अलाभोदयाद् अपगतसर्वस्वः किम्भूतो भवति ? इत्याह जेहिं वा सद्धिं संवसति ते व णं एगया णियगा पुव्विं पोर्सेति, सो वा ते णियगे पच्छा पोसेज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा सरणाए वा ॥६६॥ जेहिं वेत्यादि । वाशब्दः भिन्नक्रमः पक्षान्तरद्योतकः, यैः माता- पितृस्वजनादिभिः सार्धं संवसति असौ त एव वा, णमिति वाक्यालङ्कारे, एकदा इति अर्थनाशाद्यापदि शैशवे वा निजाः - आत्मीया बान्धवाः सुहृदो वा, 'पुव्वि = पूर्वमेव, तं सर्वोपायक्षीणं पोषयन्ति, स वा प्राप्तेष्टमनोरथलाभः सन् तान् निजान् पश्चात् पोषयेत् अर्थदानादिना सन्मानयेदिति । ते च पोषकाः पोष्या वा तव आपद्गतस्य न त्राणाय भवन्ति इत्याह I नालं इत्यादि । ते निजाः माता-पित्रादयः, तव इति उपदेशदानविषयापन्न उच्यते, त्राणाय= = आपद्रक्षणार्थं शरणाय - निर्भयस्थित्यर्थं नालं= न समर्थाः, त्वमपि तेषां त्राणशरणे कर्तुं नालमिति ॥ ६६ ॥ तदेवं तावत् स्वजनो न त्राणाय भवति इत्येतत् प्रतिपादितम् । अर्थोऽपि महता क्लेशेन उपार्जितो रक्षितश्च न त्राणाय भवति इत्येतत् प्रतिपिपादयिषुराह— [सू० ] उवादीतसेसेण वा संणिहिसण्णिचयो कज्जति इहमेगेसिं माणवाणं भोयणा । ततो से एगया रोगसमुप्पाया समुप्पज्जंति । उवादीत० इत्यादि । उपादितेति " अद भक्षणे [ पा०धा०२/१०११ ] इत्येतस्माद् उपपूर्वाद् निष्ठाप्रत्ययः, तत्र "बहुलं छन्दसि' '[ पा०व्या०७/४/७८ ] इतीडागमः, उपादितम् - उपभुक्तम्, तस्य शेषम् - उपभुक्तशेषम्, तेन वा, वाशब्दाद् अनुपभुक्तशेषेण वा । सन्निधानं = सन्निधिः, तस्य सन्निचय: = सन्निधिसन्निचयः, अथवा सम्यग् निधीयते=अवस्थाप्यत उपभोगाय योऽर्थः स सन्निधिः, तस्य सन्निचय: = प्राचुर्यम्, टि० १. पूर्वं ख ॥। २. इत्युपदेशविषया० खप्रतिमृते ॥। ३. क्लेशेनोपात्तो कआदर्शमृते ॥ ४. अदप्सा भक्षणे घ ङ ॥ २००
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy