________________
प्रमादिनां दोषा अपायाश्च [श्रु०१। अ०२। उ०१। सू०६६] "ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् ।
मानुष्यं खद्योतक-तडिल्लताविलसितप्रतिमम् ॥" [ ] इत्यादि । किमर्थं च नो प्रमादयेत् ? इत्याहवओ अच्चेति जोव्वणं व ॥ ६५॥
वेयो अच्चेइ त्ति । वयः कुमारादि, तद् अत्येति अतीव एति याति अत्येति । अन्यच्च-जोव्वणं व त्ति, 'अत्येति' अनुवर्तते, यौवनं वा अत्येति-अतिक्रामति । 'वयो'ग्रहणेनैव यौवनस्य गतत्वात् तदुपादानं प्राधान्यख्यापनार्थम्, धर्मा-ऽर्थ-कामानां तन्निबन्धनत्वात् सर्ववयसां यौवनं साधीयः, तदपि त्वरितं यातीति । उक्तं च
"नइवेगसमं चवलं च जीवियं जोव्वणं च कुसुमसमं ।
सोक्खं च जं अणिच्चं तिण्णि वि तुरमाणभोज्जाइं ॥" [तन्दु०वैचा०प्रकी०८१] तद् एवं मत्वा अहोविहाराय उत्थानं श्रेय इति ॥६५॥ ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहुमन्यन्ते; ते किम्भूता भवन्ति ? इत्याह[सू०] जीविते इह जे पमत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुपित्ता उद्दवेत्ता उत्तासयित्ता अकडं करिस्सामि त्ति मण्णमाणे ।
जीविए इत्यादि । ये तु वयोऽतिक्रमणं नावगच्छन्ति; ते इह इति अस्मिन् असंयमजीविते प्रमत्ता: अध्युपपन्ना विषय-कषायेषु प्रमाद्यन्ति । प्रमत्ताश्च अहर्निशं परितप्यमानाः कालाकालसमुत्थायिनः सन्तः सत्त्वोपघातकारिणीः क्रियाः समारभन्त इति । आह च
से हंता इत्यादि । से इति अप्रशस्तगुणमूलस्थानवान् विषयाभिलाषी प्रमत्तः सन् स्थावर-जङ्गमानामसुमतां हन्ता भवतीति । अत्र च बहुवचनप्रक्रमेऽपि जात्यपेक्षया एकवचननिर्देश इति । तथा छेत्ता इति कर्ण-नासिकादीनाम्, भेत्ता शिरो-नयनोदरादीनाम्, लुम्पयिता ग्रन्थिच्छेदादिभिः, विलुम्पयिता ग्रामघातादिभिः, अपद्रावयिता प्राणव्यपरोपको विष-शस्त्रादिभिः अपद्रावयिता वा, उत्रासको लोष्टप्रक्षेपादिभिः । स किमर्थं हननादिकाः
टि० १. वए ख ।। २. साधीयः साधुः, तदपि च ॥ ३. इत्यस्मिन् संयम० च ॥ ४. भेत्ता शिरोदशनादीनाम् ख । भेत्ता नयन-शिरो-दशनादीनाम् च ॥