________________
[श्रु०१ | अ०२ । उ०१ । सू०६५ ]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
अवगूहिर्तुमिच्छति' इत्यादिवचसां आस्पदत्वाद् न रत्यै भवति । न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवेलीकस्तु नैव शोभते । उक्तं च—
I
"न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । अथ तेषु च वर्तते जनो, ध्रुवमायाति परां प्रपञ्चताम् ॥' "जं जं करेइ तं तं न सोहए जोव्वणे अतिक्कं । पुरिसस्स महिलियाए एवं धम्मं पमोत्तूणं ॥"[
]॥६४॥
गतं अप्रशस्तमूलस्थानम् । साम्प्रतं प्रशस्तं उच्यते - इच्चेवमित्यादि । अथवा य एवं ते सुहृदो नालं त्राणाय वा शरणाय वा अतः किं विदध्याद् ? इति आह[सू०] इच्चेवं समुट्ठिते अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि णो पमादए ।
इच्चेवमित्यादि । इतिः उपप्रदर्शने, 'अप्रशस्तमूलगुणस्थाने वर्त्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूषायै, प्रत्येकं च शुभा - ऽशुभकर्मफलं प्राणिनां ' इति एवं मत्वा समुत्थितः=सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन्, अहो इत्याश्चर्ये, विहरणं-विहारः, आश्चर्यभूतो विहारः = अहोविहारः यथोक्तसंयमानुष्ठानम्, तस्मै अहो - विहाराय उत्थितः सन् क्षणमपि नो प्रमादयेद् इत्युत्तरेण सॅण्टङ्कः । किञ्च—
अंतरं चेत्यादि । अन्तरम् इति अवसरः, तच्च आर्यक्षेत्र - सुकुलोत्पत्ति- बोधिलाभसर्वविरत्यादिकम्, चः समुच्चये, खलुः अवधारणे, 'इममिति अनेन इदमाह - विनेयः तपः-संयमादौ अवसीदन् प्रत्यक्षभावापन्नं आर्यक्षेत्रादिकं अन्तरमवसरं उपदर्श्य अभिधीयते - 'तव अयं एवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति; अतस्तमवसरं सम्प्रेक्ष्य=पर्यालोच्य धीरः सन् मुहूर्तमप्येकं नी प्रमादयेत् न प्रमादवशगो भूयादिति । सम्प्रेक्ष्य इत्यत्र अनुस्वारलोपः छान्दसत्वादिति, अन्यदपि अलाक्षणिकं एवंजातीयं अस्मादेव हेतोरवगन्तव्यमिति । आन्तर्मौहूर्तिकत्वाच्च छाद्मस्थिकोपयोगस्य मुहूर्तम् इत्युक्तम्, अन्यथा समयमप्येकं न प्रमादयेद् इति वाच्यम् । तदुक्तम्
१९८
'सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय ।
हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ? || "
44.
टि० १. ०मिच्छसि ? खआदर्श विना ॥ २. ०वलीकः सन् नैव ख ग घ ङ । ० वलीकः स नैव च ।। ३. विडम्बनाम् ग विना ॥ ४. वा इति खप्रतावेव ॥ ५. ०ने, यतोऽप्रशस्त० क चप्रती विना ॥ ६. न क-घ । ७. सम्बन्धः घ ङ ॥ ८. वीरः क च । ९. न ख च ऋते ॥