________________
त्राण-शरणाऽसमर्थाः स्वजनाः [श्रु०१। अ०२। उ०१। सू०६४] "गात्रं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव हसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते,
धिक् कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥"[ ] इत्यादि । तदेवं जराभिभूतं पुरुषं निजाः परिवदन्ति । असावपि परिभूयमानः तद्विरक्तचेताः तदपवादान् जनाय आचष्टे, आह च
सो वा इत्यादि । वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजाः तं परिवदन्ति, स वा जराजर्जरितदेहः तान् निजान् अनेकदोषोद्घट्टनतया परिवदेत् निन्देत् । अथवा विद्यमानार्थतया तान् असौ अवगायति, परिभवतीत्यर्थः । येऽपि पूर्वकृतधर्मवशात् तं वृद्धं न परिवदन्ति तेऽपि तद्दुःखापनयनसमर्था न भवन्तीति, आह च
___णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा सरणाए वा । से ण हासाए, ण किड्डाए, ण रतीए, ण विभूसाए ॥६४॥
नालमित्यादि । नालं= न समर्थाः ते पुत्र-कलत्रादयः तव इति प्रत्यक्षभावं उपगतं वृद्धं आह । 'त्राणाय शरणाय वे'ति तत्र आपत्तरणसमर्थं त्राणं उच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लवमासाद्य आपस्तरतीति । शरणं पुनर्यदवष्टम्भाद् . निर्भयैः स्थीयते तदुच्यते, तत् पुनर्दुर्गं पर्वतः पुरुषो वेति । एतदुक्तं भवति-जराभिभूतस्य .. न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वेति । उक्तं च
"जन्म-जरा-मरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते ।
जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥" [प्रशम० १५२] इत्यादि । स तु तस्यामवस्थायां किम्भूतो भवति ? इति, आह
'से ण हस्साए' इत्यादि । स जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वाद् न परान् हसितुं योग्यो भवतीत्यर्थः । स च समक्षं परोक्षं वा एवमभिधीयते जनैः-'किं किलास्य हसितेन हास्यास्पदस्य' इति । न च क्रीडायै न च लङ्घन-वल्गनाऽऽस्फोटनक्रीडानां योग्योऽसौ भवति । नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनः ललनावगृहनादिका, तथाभूतोऽपि अवजुगूहिषुः स्त्रीभिः अभिधीयते-'न लज्जते भवान्, न पश्यति आत्मानम्, नावलोकयति शिरः पलितभस्मावगुण्डितम्, मां दुहितृभूतां
टि० १. तव्यतिरिक्तचेता० घ ङ च ॥ २. च ख ग ॥ ३. किंगुणो ख ॥
१९७