________________
[श्रु०१। अ०२ । उ०१ । सू०६४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
गोपाल-बाला-ऽङ्गनादीनां च दृष्टान्तद्वारेण उपन्यस्तोऽर्थो बुद्धिं अधितिष्ठतीति; अतस्तदाविर्भावनाय कथानकम्—
कौशाम्ब्यां नगर्यामर्थवान् बहुपुत्रो धनो नाम सार्थवाहः । तेन च एकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितम् । तच्च अशेषदुःखितबन्धुजन - स्वजन- पुत्र- मित्रकलत्रादिभोग्यतां निन्ये । ततोऽसौ कालपरिपाकवशाद् वृद्धभावर्मुपगतः सन् पुत्रेषु सम्यक्पालनोपचितकलाकुशलेषु समस्तकार्यचिन्ताभारं निश्चिक्षेप । तेऽपि च 'वयमनेन ईदृशीं अवस्थां नीताः सर्वजनाग्रेसरा विहिता:' इति कृतोपकाराः सन्तः कुलपुत्रतां अवलम्बमानाः स्वतः क्वचित् कार्यव्यासङ्गात् स्वभार्याभिस्तमकल्यं वृद्धं प्रत्यजजागरन् । तो अपि उद्वर्तन-स्नान- भोजनादिना यथाकालमक्षूणं विहितवत्यः । ततो गच्छत्सु दिवसेषु वर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषु जरद्वृद्धे च विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेषश्रोतसि सतुि शनै: शनै: उचितं उपचारं शिथिलतां निन्युः । असौ अपि मन्दप्रतिजागरणतया चिंत्ताभिमानेन विश्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षूणानि आचचक्षे । ताश्च स्वभर्तृभिः चेखिद्यमानाः सुतरामुपचारं परिहृतवत्यः; सर्वाश्च पर्यालोच्य एकवाक्यतया स्वभर्तृनभिहितवत्यः 'क्रियमाणेऽपि अयं प्रतिजागरणे वृद्धभावाद् विपरीतबुद्धितया अपह्नुते । यदि भवतामपि अस्माकमुपरि अविश्रम्भस्ततोऽ ऽन्येन विश्वसनीयेन निरूपयत' । तेऽपि तथैव चक्रुः । तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः । असावपि पुत्रैः पृष्टः पूर्वविरू [ ? रु]क्षितचेताः तथैव ता अपवदति—‘नैता मम किञ्चित् सम्यक् कुर्वन्ती'ति । तैश्च प्रत्ययिकवचनाद् अवगततत्त्वैः यथा अयं उपचर्यमाणोऽपि वार्द्धक्याद् रोरुद्यते, अतस्तैरपि अवधीरितः, अन्येषामपि कैथावसरे तद्भण्डनस्वभावतां आचचक्षिरे । ततोऽसौ पुत्रैः अवधीरितः स्नुषाभिः परिभूतः परिजनेन अवगीतो वाङ्मात्रेणापि केनचिदपि अननुवर्त्यमानः सुखिते दुःखितः कष्टतरां आयुःशेषां अवस्थां अनुभवतीति ।
एवमन्योऽपि जराभिभूतविग्रहः तृणकुब्जीकरणेऽपि असमर्थः सन् स्वकार्यैकनिष्ठाल्लोकात् परिभवं आप्नोतीति, आह च
टि० १. ० मुपागतः घ ङ ॥ २. ता अमुमुद्वर्तन० घ ङ ॥ ३. चिंताभिमानेन च ॥ ४. सर्वा एवं सर्वाणि ख च ॥ ५. तैस्तु ख च ग ॥ ६ यथावसरे ख ङ च ॥ ७ तद्भटन० क ङ । तद्भण्टन० ख ग घ ॥ ८. ०स्वभावमा० ख ॥। ९. सुखितेषु ग ॥
वि०टि० क् " अकल्य[ म् ] इति सरोगम्" जै०वि०प० ॥ " सुखिते इति शेषलोके" जै०वि०प० ॥
१९६