________________
वार्द्धक्ये लोकावगीतत्वम् [श्रु०१। अ०२। उ०१। सू०६४] "पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ॥"
। [मनुस्मृ०९/३, महा० अनुशा०४६/१४] अन्यथा वा त्रीणि वयांसि, बाल-मध्यत्व-वृद्धत्वभेदात् । उक्तं च
"आ षोडशाद् भवेद् बालो, यावत् क्षीरान्नवर्तकः ।
मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते ॥" [ ] एतेषु च वयस्सु सर्वेष्वपि या उपचयवती अवस्था तामभिक्रान्तोऽभिक्रान्तवया इत्युच्यते । चः समुच्चये, न केवलं श्रोत्र-चक्षुः-घ्राण-रसन-स्पर्शनविज्ञानैः व्यस्तसमस्तैः देशतः सर्वतो वा परिहीयमाणैः मौढ्यमापद्यते । वयश्च अभिक्रान्तं प्रेक्ष्य-पर्यालोच्य, स . इति प्राणी, खलुः इति विशेषणे, विशेषेण अत्यर्थं मौढ्यमापद्यत इति । आह च
तओ से इत्यादि । ततः इति तस्माद् इन्द्रियविज्ञानापचयाद् वयोऽतिक्रमणाद् वा, स इति प्राणी, एकदा इति वृद्धावस्थायां, मूढभावः मूढत्वं किङ्कर्तव्यताभावं आत्मनो जनयति । अथवा से तस्य असुभृतः श्रोत्रादिविज्ञानानि परिहीयमाणानि मूढभावं जनयन्तीति । स एवं वार्धक्ये मूढस्वभाव: सन् प्रायेण लोकावगीतो भवति इत्याह
जेहिं वा सद्धि संवसति ते व णं एगया णियगा पव्वि परिवदंति, सो वा ते णियगे पच्छा परिवदेज्जा ।
'जेहिं वे'त्यादि । वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोकः, यैः पुत्रकलत्रादिभिः सार्धं-सह संवसति त एव भार्या-पुत्रादयो, णमिति वाक्यालङ्कारे, एकदा इति वृद्धावस्थायां नियगा:-आत्मीया ये तेन समर्थावस्थायां पूर्वमेव पोषिताः ते तं परिवदन्ति परि:-समन्ताद् वेदन्ति परिवदन्ति; यथा-'अयं न म्रियते 'नापि मञ्चकं ददाति' । यदि वा परिवदन्ति परिभवन्तीत्युक्तं भवति । अथवा 'किमनेन वृद्धेन ?' इत्येवं परिवदन्ति । न केवलमेषाम्, तस्य आत्माऽपि तस्यां अवस्थायां अवगीतो भवतीति । आह च
"वलिसन्ततमस्थिशेषितं, शिथिलस्नायुवृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा ?॥" [ ]
टि० १. तामतिक्रान्तवया क ख । तामभिक्रान्तोऽतिक्रान्तवया उच्यते ग । तामतिक्रान्तोऽतिक्रान्तवया च ।। २. ०श्चातिक्रान्तं घआदर्शमते ॥ ३. वदन्ति यथा खप्रत्या विना ।। ४. न च क घ ङ ।। ५. ०स्नायुधृतं च ॥
१९५