________________
[श्रु०१। अ०२। उ०१। सू०६४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् चेति । तत्र अभ्यन्तरमक्ष्णस्तावत् कृष्णशुक्लमण्डलम्, बाह्यमपि पत्र-पक्ष्मद्वयादि; एवं शेषेष्वपि आयोजनीयमिति ।।
भावेन्द्रियं अपि लब्ध्युपयोगभेदाद् द्विधा । तत्र लब्धिः ज्ञान-दर्शनावरणीयक्षयोपशमरूपा; यत्सन्निधानाद् आत्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते तन्निमित्तः आत्मनो मनःसाचिव्याद् अर्थग्रहणं प्रति व्यापार उपयोग इति । तदत्र सत्यां लब्धौ निर्वृत्त्युपकरणोपयोगाः, सत्यां च निर्वृत्तौ उपकरणोपयोगौ, सति उपकरणे उपयोग इति ।
एतेषां च श्रोत्रादीनां कदम्ब -मसूर-कलम्बुकापुष्प-क्षुरप्र-नानासंस्थानता अवगन्तव्येति । विषयश्च श्रोत्रेन्द्रियस्य द्वादशभ्यो योजनेभ्य आगतं शब्दं गृह्णाति, चक्षुरपि एकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं प्रेकाशकम्, प्रकाश्यं तु सातिरेकयोजनलक्षव्यवस्थितं रूपं गृह्णाति, शेषाणि तु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णन्ति, जघन्यतस्तु अङ्गलासङ्ख्येयभागविषयत्वं सर्वेषाम् । ___अत्र च ‘सोयपन्नाणेहिं परिहायमाणेही'त्यादि य उत्पत्तिं प्रति व्यत्ययेन .. इन्द्रियाणां उपन्यासः स एवमर्थं दृष्टव्यः-इह सचिनः पञ्चेन्द्रियस्य उपदेशदानेन अधिकृतत्वाद् उपदेशश्च श्रोत्रेन्द्रियविषय इति कृत्वा, तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्तिः । सूचिता भवति । श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते । तदेव आह
'अभिकंतमि'त्यादि। अथवा श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः अभिकंतं च खलु वयं स पेहाए । तत्र प्राणिनां कालकृता शरीरावस्था यौवनादिः वयः, तज्जरामभि मृत्युं वा क्रान्तम्-अभिक्रान्तम् । इह हि चत्वारि वयांसि कुमार-यौवन-मध्यम-वृद्धत्वानि । उक्तं च
"प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् ।
तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥''[ ] तत्र आद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति । अथवा त्रीणि वयांसि कौमार-यौवन-स्थविरत्वभेदात् । उक्तं च
टि० १. तन्निमित्तमात्मनो घ ॥ २. प्रकाशम् ग घ ॥ ३. सोयपरिन्नाणेहिं घ-ङपुस्तके ॥ ४. प्रतिपत्तव्यः ग ॥ ५. सर्वेन्द्रियसम्प्राप्ति: ख ॥ ६. अन्यथा वा च ॥
वि०टि० क "कलम्बुकापुष्पं काहलिका" स०वि०प० ॥ + "प्रकाशम् इति आदित्यादि" जै०वि०प० ॥
१९४