SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ वयःपरिपाके इन्द्रियशैथिल्यम् [श्रु०१। अ०२। उ०१। सू०६४] मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद् यथा इत्यादिना दर्शयति तं जहा-सोतपण्णाणेहिं परिहायमाणेहिं चक्खुपण्णाणेहिं परिहायमाणेहिं घाणपण्णाणेहि परिहायमाणे हिं रसपण्णाणे हिं परिहायमाणेहिं फासपण्णाणेहिं परिहायमाणेहिं अभिकंतं च खलु वयं सपेहाए ततो से एगया मूढभावं जणयंति । सोयपण्णाणेहिं इत्यादि ततो से एगया मूढभावं जणयंति त्ति यावत् । शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रम्; तच्च कदम्बपुष्पाकारं द्रव्यतः, भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभावमिति । तेन श्रोत्रेण परिः समन्ताद् घट-पटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि, तैः श्रोत्रपरिज्ञानैः जराप्रभावात् परिहीयमाणैः सद्भिः ततोऽसौ प्राणी एकदा = वृद्धावस्थायां रोगोदयावसरे वा मूढभावं = मूढतां कर्तव्या-ऽकर्तव्याज्ञतां इन्द्रियपाटवाभावाद् आत्मनो जनयति, हिता-ऽहितप्राप्ति-परिहारविवेकशून्यतामापद्यत इत्यर्थः । जनयन्ति इति चैकवचनावसरे “तिडां तिङो भवन्ति" [ ] इति बहुवचनमकारि । अथवा तानि वा श्रोत्रविज्ञानानि परिक्षीयमाणानि आत्मनः सदसद्विवेकविकलतां आपादयन्तीति । श्रोत्रादिविज्ञानानां च तृतीया प्रथमार्थे सुव्यत्ययेन दृष्टव्येति; एवं चक्षुरादिविज्ञानेष्वपि योज्यम् । अत्र च करणत्वाद् इन्द्रियाणामेवं सर्वत्र दृष्टव्यम्-श्रोत्रेण आत्मनो विज्ञानानि, चक्षुषा आत्मनो विज्ञानानीति । ननु च तान्येव द्रष्टुणि कुतो न भवन्ति ? इति, उच्यते-अशक्यमेवं विज्ञातुं, तद्विनाशे तदुपलब्धार्थस्मृत्यभावात् । दृश्यते च हृषीकोपघातेऽपि तदुपलब्धार्थस्मरणम्, तद्यथा- धवलगृहान्तर्वर्तिपुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति । तथा हि-अहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमि ति स्पष्टैव " करणत्वावगतिः अक्षाणाम् । यद्येवं अन्यान्यपि करणानि सन्ति तानि किं नोपात्तानि ?, कानि पुनस्तानि ?, उच्यते- वाक्-पाणि-पाद-पायु-उपस्थ-मनांसि वचना-ऽऽदानविहरण-उत्सर्गा-ऽऽनन्द-सङ्कल्पव्यापाराणि, ततश्च एतेषां आत्मोपकारकत्वेन करणत्वम्, ' करणत्वाद् इन्द्रियत्वमिति, एवं च एकादशेन्द्रियसद्भावे सति पञ्चानामेव उपादानं किमर्थम् ? इति । टि० १. जघन्यतरा० ख च ॥ २. सोयपरिणाणेहिं क ख ग विना ॥ ३. श्रोत्रपरिज्ञानानि ख ॥ वि०टि० क "हृषीकाणि-इन्द्रियाणि'' स०वि०प० ॥ १९१
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy