________________
[श्रु०१। अ०२। उ०१। सू०६४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
आह आचार्य:-नैष दोषः, इह हि आत्मनो विज्ञानोत्पत्तौ यत् प्रकृष्टमुपकारकं तदेव करणत्वाद् इन्द्रियम् । एतानि तु वाक्-पाण्यादीनि नैव आत्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते । अथ यां काञ्चन क्रियां उपादाय करणत्वमुच्यते; एवं तर्हि भ्रूदरादेरपि उत्क्षेपादिसम्भवात् करणत्वं स्यात् । किञ्च–इन्द्रियाणां स्वविषये नियतत्वाद् नान्येन्द्रियकार्य अन्यद् इन्द्रियं कर्तुमलम्, तथाहि-चक्षुरेव रूपावलोकनाय अलम्, न तदभावे श्रोत्रादीनि । यस्तु रसाधुपलम्भे शीतस्पर्शादेः अपि उपलम्भः स सर्वव्यापित्वात् स्पर्शनेन्द्रियस्य इति अनाशङ्कनीयम्, इह पुनः पाणिच्छेदेऽपि तत्कार्यस्य आदानलक्षणस्य दशनादिनाऽपि निर्वर्त्यमानत्वाद् यत्किञ्चिदेतत् । मनसस्तु सर्वेन्द्रियोपकारकत्वाद् अन्तःकरणत्वं इष्यत एव; तस्य च बाह्येन्द्रियविज्ञानोपघातेनैव गतार्थत्वाद् न पृथगुपादानमिति । प्रत्येकोपादानं च क्रमोत्पत्तिविज्ञानोपलक्षणार्थम् । तथा हि-येनैव इन्द्रियेण सह मनः संयुज्यते तदेव . आत्मीयविषयग्रहणाय प्रवर्तते, नेतरदिति । ननु च दीर्घशष्कुलीभक्षणादौ पञ्चानामपि - विज्ञानानां योगपद्येन उपलब्धिः अनुभूयते ?, नैतदस्ति, केवलिनोऽपि द्वावुपयोगौ न स्तः, आस्तां तावद् आरातीयभागदर्शिनः पञ्चोपयोगा इति । एतच्च अन्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतायते । यस्तु यौगपद्येन अनुभवाभासः स द्राग्वृत्तित्वाद् मनसो भवतीति । उक्तं च
"आत्मा सहैति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । योगोऽयमेव मनसः किमगम्यमस्ति ?
यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ॥ "[ ] इह च अयमात्मा इन्द्रियलब्धिमान् आदित्सितजन्मोत्पत्तिदेशे समयेन आहारपर्याप्ति निवर्तयति, तदनन्तरमन्तर्मुहूर्तेन शरीरपर्याप्तिम्, ततोऽपि इन्द्रियपर्याप्ति तावतैव कालेन; तानि च पञ्चेन्द्रियाणि स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणीति । तान्यपि द्रव्य-भावभेदात् प्रत्येकं द्विविधानीति । तत्र द्रव्येन्द्रियं निर्वृत्त्युपकरणभेदाद् द्विधा । निर्वृत्तिः अपि आन्तरबाह्यभेदाद् द्विधैव ।
टि० १. साधारणत्वेन व्याप्रि० क ग ॥ २. तु पुनः ख विना ॥ ३. ०यविषयगुणग्रहणाय घ