________________
[श्रु०१। अ०२ । उ०१ । सू०६४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
उत्तरोत्तरसमयादिवृद्ध्या पल्योपमत्रयावसानेऽपि आयुषि खलुशब्दस्य अवधारणार्थत्वात् संयमजीवितं अल्पमेव इति । तथा हि- अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत् संयमायुष्कम्; तच्च अल्पमेव इति । अथवा त्रिपल्योपमस्थितिकमपि आयुरल्पमेव, यतस्तदपि अन्तर्मुहूर्त्तं अपहाय सर्वमपवर्तते । उक्तं च
" अद्धा जोक्कोसे बंधित्ता भोगभूमिसु लहुं । सव्वप्पजीवियं वज्जयित्तु उव्वट्टिया दोन्हं ॥ ' [ पंचसं० ३२३ ] अस्या अयमर्थः- उत्कृष्टे योगे बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव, तं बद्ध्वा, क्व ? भोगभूमिकेषु देवकुर्वादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वर्जयित्वा द्वयोः = तिर्यङ् - मनुष्ययोः अपवृत्तिका = अपवर्तनं भवति एतच्च अपर्याप्तकान्तर्मुहूर्तान्तः दृष्टव्यम्; तत ऊर्ध्वं अनपवर्तनमेव इति । ।
सामान्येन चायुः सोपक्रमायुषां सोपक्रमम्, निरुपक्रमायुषां निरुपक्रमम् । यदा हि असुमान् स्वायुषः त्रिभागे त्रिभागत्रिभागे वा जघन्यत एकेन द्वाभ्यां वा उत्कृष्टतः सप्तभिरष्टभिः वा आकर्षै: अन्तर्मुहूर्त्तप्रमाणेन कालेन आत्मप्रदेशरैचनान्तर्वर्तिनः आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवति, अन्यदा तु सोपक्रमायुष्क इति । उपक्रमश्च उपक्रमणकारणैः भवति, तानि चामूनि -
" दंड कस सत्थ रज्जू अग्गी उदग पडणं विसं वाला । सी- उन्हं अरइ भयं खुहा पिवासा य वाही य ॥ मुत्त-पुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो । घंसण घोलण पीलण आउस्स उवक्कमा एए ॥ " [आव०नि०७२५-२६,
विशेषाव०२०४२-४३]
उक्तं च–“स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो, निपुणता नृणां क्षणमपीह यज्जीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति ? ॥ [ उच्छ्वासावधयः प्राणाः, स चोच्छ्वासः समीरणः । समीरणाच्चलं नान्यत्, क्षणमप्यायुरद्भुतम् ॥” [ येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि
] इत्यादि ।
१९०
2
]
टि० १. जोगुक्कोसं घ ङ ।। २. देवकुर्वादिषु क ॥। ३. ०रचनानाडिकान्तर्वर्तिन ख विना ॥ ४. नास्ति, क्षण० ख ॥