________________
अल्पायुष्कत्वं मानवानाम् [श्रु०१। अ०२। उ०१। सू०६४] सहसक्कारे-करणं कारः, असमीक्षितपूर्वा-ऽपरदोषं सहसा करणं सहसाकारः, स विद्यते यस्य इति, "अर्शआदिभ्योऽच्" [पा०५/२/१२७] । अथवा छान्दसत्वात् कर्तर्येव घञ्, करोतीति कारः । तथा हि- लोभतिमिराच्छादितदृष्टिः अर्थैकमनाः शकुन्तवत् शराघातं अनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति । लोभाभिभूतो हि अर्थैकदृष्टिः तन्मनाः तदर्थोपयुक्तः अर्थमेव पश्यति नापायान् । आह च
विणिविट्ठचित्ते- विविधम् अनेकधा निविष्टं स्थितं अवगाढं अर्थोपार्जनोपाये माता-पित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तम् अन्तःकरणं यस्य स तथा । पाठान्तरं वा- 'विणिविट्ठचेडे' त्ति, विशेषेण निविष्टा काय-वाङ्-मनसां परिस्पन्दात्मिका अर्थोपार्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः ।
तदेवं माता-पित्रादिसंयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा किम्भूतो भवति ? इति, आह
एत्थ इत्यादि । अत्र-अस्मिन् माता-पित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः सन् पृथ्वीकायादिजन्तूनां यत् शस्त्रं-उपघातकारि तत्र पुनः पुनः प्रवर्तते; एवं पौन:पुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवीकायादिजन्तूनामुपघाते वर्तते । तथा हि"शसु हिंसायाम्" [पा०धा० ७२४] इत्यस्मात् शस्यते हिंस्यत इति करणे ष्ट्रन् विहितः; तच्च स्वकाय-परकायादिभेदभिन्नमिति । पाठान्तरं वा 'एत्थ सत्ते पुणो पुणो', अत्रमाता-पितृ-शब्दादिसंयोगे लोभार्थी सन् सक्तः गृद्धः अध्युपपन्नः पौन:पुन्येन विनिविष्टचेष्टः आलुम्पकः सहसाकार: कालाकालसमुत्थायी वा भवतीति ॥६३।।
एतच्च साम्प्रतक्षिणामपि युज्येत यदि अजरामरत्वं दीर्घायुष्कं वा स्यात्; तच्च उभयमपि नास्ति इत्याह[सू०] अप्पं च खलु आउं इहमेगेसिं माणवाणं ।
अप्पं च इत्यादि । अल्पं स्तोकम्, चशब्दः अधिकवचनः, खलुः अवधारणे, आयुः इति भवस्थितिहेतवः कर्मपुद्गलाः, इह इति संसारे मनुष्यभवे वा एकेषां केषाञ्चिदेव मानवानां मनुजानामिति पदार्थः । वाक्यार्थस्तु इह-अस्मिन् संसारे केषाञ्चिन्मनुजानां क्षुल्लकभवोपलक्षितान्तर्मुहूर्तमात्रम् अल्पं स्तोकं आयुर्भवति । चशब्दाद् र
टि० १. सहसक्कारो ख ॥ २. अर्शादिभ्यो ख ॥ ३. ०संयोगार्थमलोभी क ॥ ४. स पृथिवी० ख ॥ ५. ०ते पौनःपुन्येन शस्त्रे प्रवृत्तो भवति, यदि वा पृथिवी० ख ॥ ६. युज्यते क घ ङ ॥ ७. दीर्घायुष्कत्वं ख ॥ ८. स्तोकं च, चशब्दः अल्पवचनः ख ।।
१८९