SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०१। सू०६३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् इति भावना । यथा प्रद्योतेन मृगावतिः अपगतभर्तृका सती ग्रहणकालं अतिवाह्य कृतप्राकारादिरक्षा जिघृक्षितेति । यस्तु पुनः सम्यक् कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति । तदुक्तम् "मासैरष्टभिरह्ना च, पूर्वेण वयसाऽऽयुषः । तत् कर्तव्यं मनुष्येण येस्यान्ते सुखमेधते ॥" [ धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिव इति । किमर्थं पुनः कालाऽकालसमुत्थायी भवति ? इति, आह संजोगट्ठी- संयुज्यते संयोजनं वा संयोगः, अर्थः प्रयोजनम्, सो अस्य अस्तीति संयोगार्थी । तत्र धन-धान्य-हिरण्य-द्विपद-चतुष्पद-राज्य-भार्यादिसंयोगः, तेनार्थी = तत्प्रयोजनी । अथवा शब्दादिविषयः संयोगो माता-पित्रादिभिर्वा, तेनार्थी कालाऽकालसमुत्थायी भवतीति । किञ्च अट्ठालोभी- अर्थः रत्न-कुप्यादिः, तत्र आ–समन्ताल्लोभः अर्थालोभः, स विद्यते यस्य इति, असावपि काला-ऽकालसमुत्थायी भवति मम्मणवणिग्वत् । तथा हि-असौ अतिक्रान्तार्थोपार्जनसमर्थयौवनवया जल-स्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थगन्त्रिकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रौ अच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलप्राणिगणसञ्चारमनोरथायां महानदीजलपूरानीतकाष्ठानि जिघृक्षुः उपभोगधर्मावसरे निवृत्तापराशेषशुभपरिणामः केवलं अर्थोपार्जनप्रवृत्त इति । उक्तं च "उक्खणइ खणइ निहणइ रतिं न सुयइ दिया वि य ससंको । लिम्पइ ठवेइ सययं लंछियपडिलंछियं कुणइ ॥ भंजसु, न ताव रिक्को जेमेउं, न वि य अज्ज मज्जीहं। न वि य वसीहामि घरे कायव्वमिणं बहुं अज्ज ॥" [ ] पुनरपि लोभिनः अशुभव्यापारान् आह आलुंपे- आ=समन्ताद् लुम्पति इति आलुम्पः । स हि लोभाभिभूतान्तःकरणो अपगतसकलकर्तव्या-ऽकर्तव्यविवेकः अर्थलोभैकदत्तदृष्टिः ऐहिका-ऽऽमुष्मिकविपाककारिणी: निर्लाञ्छन-गलकर्तन-चौर्यादिकाः क्रियाः करोति । अन्यच्च टि० १. वयसाऽऽयुषा कप्रतिमृते ॥ २. येनान्ते घ ङ च ॥ ३. कश्चित् कालो घ ङ ॥ वि०टि० + "न ताव रिक्को-न निराकुलः" स०वि०प० ॥ + "रिक इति समथो(र्थो)[5]व्याकुलो वा" जै०वि०प० ॥ १८८
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy